________________
Shri Maa
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
["तत्तस्य सदृशं भवेत्” इति स्थितायाः सीताया न युक्तम्, अतो व्याजेन निपुणं परिहरति-समर्थेति । मदन्तरे मद्विषये । अन्यैरकर्तव्यं कर्तुमशक्यं कार्य त्वया कर्तव्यं कर्तुं शक्यमित्यवगच्छामि । यद्वा मद्विषये ते कर्तव्यम् अवश्यकरणीयं जानामीत्यर्थः ॥६॥रावणं गत्वा स किं करोतीति । ज्ञातुमिच्छामि, त्वत्कर्तृकं रावणज्ञानमिच्छामीत्यर्थः ॥७॥ तस्य ज्ञानस्य किं प्रयोजनमित्यत्राह-स हीति । पीतमात्रा सद्यः पीता । वारुणी
मत्प्रियं यदि कर्तव्यं यदि बुद्धिः स्थिरा तव । ज्ञातुमिच्छामि तं गत्वा किं करोतीति रावणः ॥७॥ स हि मायाबलःक्रूरो रावणः शत्रुरावणः। मां मोहयति दुष्टात्मा पीतमात्रेव वारुणी॥८॥ तर्जापयति मां नित्यं भर्सापयति चासकृत् । राक्षसीभिः सुघोराभिर्या मां रक्षन्ति नित्यशः ॥९॥ उद्विग्ना शङ्किता चास्मिन स्वस्थं च मनो मम । तद्भयाच्चाहमुद्विग्ना अशोकवनिकां गता ॥ १० ॥ यदि नाम कथा तस्य निश्चितं वापि यद्भवेत् । निवेदयेथाः सर्वं तत् परो मे स्यादनुग्रहः ॥ ११॥ सा त्वेवं युवती सीतां सरमा वल्गुभाषिणी । उवाच वदनं
तस्याः स्टशन्ती बाष्पविक्लवम् ॥ १२॥ मद्यम् ॥ ८॥ तर्जापयति तर्जनं कारयति । भपियति भर्त्सनं कारयति । आत्वपुगागमावार्षों । या राक्षस्यो मां रक्षन्ति ताभिस्तर्जापयतीति । सम्बन्धः । नासाने अङ्गुलिन्यासनयनभ्रामणदन्तदर्शनप्रभृतिमुखचेष्टाभि(जननं तर्जनम् । हनिष्यति दहिष्यतीत्यादिवाचा भीजननं भर्त्सनम् ॥ ९॥ कुत उद्विनेत्यत्राह तद्भयाचेति । कुतः शङ्कितेत्यत्राह अशोकवनिकां गतेति ॥ १०॥ तस्य रावणस्य यदि नाम कथा यदि वार्ताऽस्ति । यच्च तस्य निश्चितम् अध्यवसाय इति यावत् । तत्सर्वं निवेदयेथाः। ततश्च मे परोऽनुग्रहः उपकारः कृतः स्यात् । या हि नामेति पाठः सम्यक् ॥ ११॥ सा विति। वल्गु सुन्दरं यथा तथा भापितुं शीलमस्या अस्तीति वल्गुभाषिगी । बाष्पविक्लवं बाष्पव्याकुलम्, वदनं स्पृशन्ती परिमृजन्ती ॥१२॥ रामानु:-उवाच कर्तव्यमेवाह-मत्प्रियमिति । तं रावणं गत्वा रावणः किं करोतीति ज्ञातुमिच्छामि, त्वत्कर्तृकं रावणवृत्तान्तज्ञानमिच्छामीत्यर्थः ॥७॥ पीतमाचेच वारुणी सद्यः पीता वारुणी, वारुणीपानहेतुना रावणो मा मोहयतीत्यर्थः ॥८-१९॥ सा स्विति । बाष्पविक्लवं स्पृशन्ती बाप्पमोचनमपमार्जयन्ती ॥ १२-१९ ॥
निवेदयेथाः मतदयाचाहमुदिना अशोकाभिर्या मां रक्षन्ति नित्यतिमात्रेव वारुणी ॥
For Private And Personal Use Only