________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
११
गिरिवरं मेरुम् । अभितः परितः। “आभितःपरितः-" इत्यादिना द्वितीया । अनुवर्तमानः आनुकूल्येन चरन्, प्रादक्षिण्येन चरन्नित्यर्थः । हयोऽश्व टी.यु.का. व मण्डलं मण्डलगतिम् आशु त्रिंशन्मुहूर्तेनैव करोति । देवं द्योतमानम् । दिवसकरं शरणं रक्षणम् । अभ्युपेहि गच्छ । वरणीयत्वे हेतुमाइ प्रभव ॥ इति । अयं दिवसकरः प्रजानां देवतिर्यामनुष्यस्थावराणां प्रभवः कारणम् । हिः प्रसिद्धौ। वर्षादिद्वारा जगदाप्यायक इत्यर्थः । “अनौ प्रास्ता ऽऽहुतिः सम्यगादित्यमुपतिष्ठते । आदित्याजायते वृष्टिर्वृष्टेरनं ततःप्रजाः॥" इत्युक्तेः। न पुनरत्र जगत्कारणत्वोक्तिः। अश्वोपमानेन स्वातिरिक्तपुरुष। प्रेर्यत्वाभिधानात् । “भीषाऽस्मादातः पवते, भीषोदेति सूर्यः" इति श्रुतेः ॥३८॥ इति श्रीगो श्रीरामा रत्न युद्धकाण्ड• त्रयस्त्रिंशः सर्गः॥३३॥
अथ तां जातसन्तापा तेन वाक्येन मोहिताम् । सरमा हादयामास पृथिवीं द्यौरिवाम्भसा ॥१॥ ततस्तस्या हितं सख्याश्चिकीर्षन्ती सखी वचः। उवाच काले कालज्ञा स्मितपूर्वाभिभाषिणी ॥ २ ॥ उत्सहेयमहं गत्वा त्वद्वाक्यमसितेक्षणे । निवेद्य कुशलं रामे प्रतिच्छन्ना निवर्तितम् ॥ ३॥ न हि मे क्रममाणाया निरालम्बे विहायसि। समर्थो गतिमन्वेतुं पवनो गरुडोऽपि वा ॥४॥ एवं ब्रुवाणां तां सीता सरमा पुनरब्रवीत् । मधुरं वक्ष्णया वाचा पूर्व
शोकाभिपन्नया ॥५॥ समर्था गगनं गन्तुमपि वा त्वं रसातलम् । अवगच्छाम्यकर्तव्यं कर्तव्यं ते मदन्तरे ॥६॥ अथ सरमया रावणाशयपरिज्ञानं चतुस्त्रिंशे-अथ तामित्यादि । अथेति प्रथमचोकेन पूर्वसर्गोक्तानुवादः । तेन वाक्येन हादयामासेत्यन्वयः। यद्वा तेन वाक्येन रावणवाक्येन ॥ १॥ सख्याः सीतायाः। सखी सरमा ॥२॥ कुशलं कुशलप्रतिपादकं त्वद्वाक्यमित्यन्वयः। निवर्तितुमुत्सहेयं समर्थेत्यर्थः॥ ३॥ बहुदूरं कथं गन्तुमर्हसीत्यवाह-न हीति । क्रममाणायाः गच्छन्त्याः ॥४॥ मधुरं मधुरार्थकम् । वक्ष्णयति वाङ्माधु योक्तिः। पूर्व शोकाभिपन्नया सम्प्रति दृष्टयेत्यर्थः ॥५॥ सन्देशमाहरिष्यामीति वदन्ती सरमा प्रति न गन्तव्यमित्युक्ते सख्यहानिः, रामं प्रति प्रेषणं । अथेति । तेन वाक्येन हादयामासेति सम्बन्धः ॥१॥ सख्यं सखीकृत्यम् ॥ २॥ कुशलं कुशलप्रश्नरूपं त्वद्वाक्यम् ॥३॥४॥ पवमिति । पूर्व समाश्वासनात पूर्वम् । शोकाभिपन्नया वाचावीदिति ॥ ५॥ मदन्तरे मद्विषये । अकर्तव्यमपि कर्तुमशक्यमपि । ते त्वया कर्तव्यमित्यवगच्छामीति सम्बन्धः ॥ ६॥
17॥११॥
For Private And Personal Use Only