________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विभागं च बलौघस्येति रामप्रश्नस्योत्तरमाह--अयुतमिति । अत्र लङ्कायां सर्वे पूर्वद्वारस्थाः। अयुतं दशसहस्रम् । अप्रे सेनाये युद्धयन्त इत्यप्रयोधिनः । खरग्रयोधिनः सर्वे अयुतसङ्ख्याकाः । सर्वेऽपि तथाविधा इत्यर्थः ||२४|| नियुतमिति । अत्र लङ्कायाम् । चतुरङ्गेग सैन्येन सह रक्षसां नियुतं दक्षिण द्वारमाश्रितम् । तत्र चतुरङ्गबलेषु । योधाः पदातयः । अनुत्तमाः अत्यन्तशूराः । भवन्तीत्यर्थः ॥ २५ ॥ सर्वे पश्चिमद्वारवासिनः । सर्वास्त्र कोविदाः
अयुतं रक्षसामत्र पूर्वद्वारं समाश्रितम् । शूलहस्ता दुराधर्षा सर्वे खड्डाग्रयोधिनः ॥ २४ ॥ नियुतं रक्षसामंत्र दक्षिणद्वारमाश्रितम् । चतुरङ्गेण सैन्येन योधास्तत्राप्यनुत्तमाः ॥ २५ ॥ प्रयुतं रक्षसामत्र पश्चिमद्वारमाश्रितम् । चर्मखङ्गधराः सर्वे तथा सर्वास्त्रकोविदाः ॥ २६ ॥ न्यर्बुदं रक्षसामत्र उत्तरद्वारमाश्रितम् । रथिनश्चाश्ववाहाश्व कुलपुत्राः सुपूजिताः ॥ २७ ॥ शतशोऽथ सहस्राणि मध्यमं स्कन्धमाश्रिताः । यातुधाना दुराधर्षाः साग्रकोटिश्च रक्षसाम् ॥ २८ ॥ ते मया सङ्गमा भग्राः परिखाश्चावपूरिताः । दग्धा च नगरी लङ्का प्राकाराश्चावसादिताः ॥ २९ ॥ बलैकदेशः क्षपितो राक्षसानां महात्मनाम् ॥ ३० ॥
समस्तास्रज्ञाः ॥ २६ ॥ अश्ववादाश्चेति चकारेण गजवादास्समुचीयन्ते। कुलपुत्राः सत्कुलप्रसूताः, विश्वसनीया इति यावत् । सुपूजिताः रावणेन बहु मताः, किङ्करा इति शेषः ||२७|| रामानु• - कुलपुत्राः कुलोद्भूताः पुत्राः। सत्कुलप्रसूता इत्यर्थः ॥ २७ ॥ अथेति कात्स्म्यें। शतशः लागि अनेकसहस्राणि । दुराधर्षाः यातुधानाः राक्षसाः । मध्यमं स्कन्धं नगरमध्यमस्थानम् आश्रिताः। सर्वसङ्ख्यामा सामेति । रक्षतां ताम्र कोटिः पूर्ण कोटिः । अत्र लङ्कायाम्, अस्तीति शेषः ॥ २८ ॥ एवं दुर्गप्राकारवर्णनेन लघूनां भीतिर्मा भूदिति स्वकृतं दर्शयति - ते मयेति । परिखा इत्यादावपि तच्छन्दोऽनुसन्धेयः ॥२९॥ बलैकदेश इत्यर्धमेकान्ययम् । बलैकदेशः, सेनाचतुर्थीश इत्यर्थः । महात्मनां महाकायानाम् ॥ ३० ॥
खट्टाप्रयोधिनः खरप्रयोधिनः ॥ २४ ॥ नियुतमिति । अत्र सेन्येनेति इत्थम्भूतलक्षणे तृतीया । चतुरङ्गसैन्यप्रकारेण योधा इत्यर्थः ॥ २५ ॥ २६ ॥ कुलपुत्राः किङ्कराः । यद्वा कुले जाताः पुत्राः किङ्कराः, सत्कुलप्रसुता इत्यर्थः ॥ २७ ॥ स्कन्धं सैन्यस्थानम् ॥ २८ ॥ यद्येवं दुर्गा लङ्का कयमस्मद्वलसाध्येति शङ्कां निरावष्टेतेः परिखामार्गा मया भन्नाः । परिखाश्वावपूरिताः, शिलेष्टकादिभिरिति शेषः ॥ २९ ॥ महात्मनां महावृतीनाम् ॥ ३० ॥
For Private And Personal Use Only