________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सागरान्तस्थैः सागरतीरस्थैः ॥१७॥ तीर्णः तीर्णवान् । प्रवृत्तिर्वार्ता ॥१८॥ एष मन्त्रयत इति सान्निध्यद्योतनाय॥१९॥ सीतया सह शुश्रावेत्यन्वयः सर्वोद्योगेन सर्वप्रयत्नेन, जनितमिति शेषः । शब्दं सिंहनादम् ॥२०॥ दण्डनिर्घातवादिन्याः दण्डाहत्या शब्दायमानायाः॥२१॥ भेरिका, ताडयत इति शेषः। तोयदनिस्वनं तोयदनिस्वनतुल्यम् ॥ २२ ॥ कल्प्यन्ते आकल्प्यन्ते, अलंक्रियन्त इत्यर्थः। युज्यन्ते स्थवाजिनः रथेषु वाजिना दृष्टो मे परिपूर्णार्थः काकुत्स्थः सहलक्ष्मणः। स हितैः सागरान्तस्थैर्बलैस्तिष्ठति रक्षितः॥ १७॥ अनेन प्रेषिताये च राक्षसा लघुविक्रमाः। राघवस्तीर्ण इत्येव प्रवृत्तिस्तैरिहाहृता ॥१८॥ स तां श्रुत्वा विशालाक्षि प्रवृत्तिं राक्षसा धिपः । एष मन्त्रयते सर्वेः सचिवैः सह रावणः ॥ १९॥ इति ब्रुवाणा सरमा राक्षसी सीतया सह । सर्वोद्योगेन सैन्यानां शब्दं शुश्राव भैरवम् ॥२०॥ दण्डनिर्घातवादिन्याः श्रुत्वा भेर्या महास्वनम् । उवाच सरमा सीतामिदं मधुरभाषिणी ॥२१॥ सन्नाहजननी ह्येषा भैरवा भीरु भेरिका । भेरीनादं च गम्भीरं शृणु तोयदनिस्वनम् ॥२२॥ कल्प्यन्ते मत्तमातङ्गा युज्यन्ते रथवाजिनः । हृष्यन्ते तुरगारूढाः प्रासहस्ताः सहस्रशः ॥ २३ ॥ तत्र तत्र च सन्नद्धाः सम्पतन्ति पदातयः । आपूर्यन्ते राजमार्गाः सैन्यैरद्भुतदर्शनैः । वेगवद्भिर्नदद्भिश्च तोयौधैरिव सागरः
॥२४॥ शस्त्राणां च प्रसन्नानां चर्मणां वर्मणां तथा । स्थवाजिगजानां च भूषितानां च रक्षसाम् ॥२५॥ युज्यन्त इत्यर्थः । रथेत्यविभक्तिकनिर्देशो वा । हृष्यन्ते हर्षव्यापारं कुर्वन्ति ॥ २३ ॥ तत्र तत्रेति सार्धश्लोकः। सम्पतन्ति सङ्क्षीभवन्ति । सैन्यैः सनासमवेतरथगजतुरगपदातिभिः। अद्भुतदर्शनैः, अलङ्कारविशेपेरिति शेषः । वेगवद्भिर्नदद्भिश्चेति पाठ॥२॥ शस्त्राणामित्यादिश्लोकद्रयम् । प्रसत्राना सागरान्तस्यैः सागरतीरस्यैः ॥१७॥१८॥ तो प्रवृत्ति राघवस्य सबलोत्तरणवार्ताम् । इतो निर्गत्येति शेषः । मन्त्रयते विचारयति ॥१९॥ शब्द सिंहनादम्॥२०॥२१॥ सन्नाहो युद्धाय सत्रहनम् ॥ २२-२४॥ चर्मणां फलकानाम् । प्रसन्नानां शाणोल्लेखेन निर्मलानाम् । चर्म फलकम् । वर्म कवचम् ॥ २५ ॥ स-परिपूर्णार्थः अलक्ष्यीकतरक्षोप्यक्षत्वात् । सहितः मिलितः सक्षमै तिष्ठति यः स दृष्टः ॥१७॥ यदर्थ रावणः प्रहन्तातो गतः तन्मे विदितमित्युक्त, तदिदानीमावेदयति-अनेनेति । प्रवृत्तिः वार्ता ॥१॥
For Private And Personal Use Only