SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir समाश्वसिहिीत्यादि । स्वयं साक्षात् प्रत्युक्तं प्रलापरूपम्, सखीस्नेहेन सखीविषयस्नेहेन प्रतिश्रुतम् । प्रतिरुपसर्गमात्रम् ॥ ६ ॥ तदानीमसन्निहितया त्वया कथं श्रुतमित्यत्राह - लीनयेति । लीनया छन्नया । गगने कुत्रचित्तरुरन्ध्रे । गहन इति पाठे आवृत इत्यर्थः । शून्ये निर्जने । कथं घोराद्रावणा द्भयं त्यक्तम् ? तत्राह तवेति । तव हेतोः स्वन्निमित्तम् । मे जीवितमपि न प्रियम् । तत्र हेतुर्विशालाक्षीति । तव नयनसौन्दर्य पश्यन्त्या मे कथं स्वरपीडा सोढव्येति भावः । ननु विभीषणभार्या कथं सीतारक्षणे रावणेन नियोगार्हा, नियोगे वा कथं तस्याः रावणभयाद्रुढावस्थानम् ? उच्यते-विभीषणा । समाश्वसिहि वैदेहि मा भूत्ते मनसो व्यथा । उक्ता यद्रावणेन त्वं प्रत्युक्तं च स्वयं त्वया । सखीस्नेहेन तद्भीरु या सर्व प्रतिश्रुतम् ॥ ६ ॥ लीनया गगने शून्ये भयमुत्सृज्य रावणात् । तव हेतोविंशालाक्षि न हि मे जीवितं प्रियम् ॥ ७ ॥ स सम्भ्रान्तश्च निष्क्रान्तो यत्कृते राक्षसाधिपः । तच मे विदितं सर्वमभिनिष्क्रम्य मैथिलि ॥ ८ ॥ न शक्यं सौप्तिकं कर्तुं रामस्य विदितात्मनः । वधश्च पुरुषव्याघ्रे तस्मिन्नैवोपपद्यते ॥ ९ ॥ विस्थानकाले सीतायोगक्षेमपरामर्शायान्तरङ्गभूता सरमा नियुक्ता । तन्निर्गमनादिदानीमन्तरवार्ताश्रवणे भीताऽऽसीदिति न विरोधः । नियोगश्च दासीसुखेन । अदर्शनं च स्तुपात्वादिति च बोध्यम् । अन्येयं सरमेत्येके ॥ ७ ॥ मे मया । यत्कृते यन्निमित्तम् । अभिनिष्क्रम्य बहिर्निर्गम्य ॥ ८ ॥ मा भूदस्मदवगमः उपपत्तिश्व तत्र नास्तीत्याह-न शक्यमिति । सौप्तिकं सुतौ मारणम् । न केवलमशक्यत्वम्, रामस्य पुरुषधौरेयतया वधयोग्यतापि शोकेन ||४||५|| स्वयं रात्रणः त्वया प्रत्युक्त इति सम्बन्धः । सतीस्नेहेन हेतौ तृतीया ॥ ६ ॥ लीनयेति रावणाद्भयमुत्सृज्य गहने आवृतप्रदेशे शून्ये निर्जने लीनया तव रावणेनोक्तं श्रुतमिति सम्बन्धः ॥ ७ ॥ सः रावणः यत्कृते निष्क्रान्तः तच तदपि विदितमिति सम्बन्धः ॥ ८ ॥ सौप्तिकं कर्म सुप्तमारणम् । वधः जामवस्थायां हननम् ॥ ९ ॥ सायनावश्यकत्वादनन्तरं वदिष्यामीत्यादी वार्ता जीवातु सीताया वदिष्यन्ती ततोऽप्यादी मोहमपहन्तीत्याह-न शक्यमिति सौधिक स्वापसमयव्यापारः । तत्र निमित्तमाह-विजितेति। विजिता रमनः जितमनस्कस्य विदितान इति पाठे विदितः अयं यतीति ज्ञातः परुषको ते ॥ ९ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy