________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
निर्याणं निर्गमनम् ॥ ४०॥ समयेत्युक्तं विवृणोति-राशसेन्द्र इति ।रामकाविनिश्चयं रामविषये स्वकृत्यानिश्चयम् ॥४१॥ ४२ ॥ स्फुटकोणाइतेन उल्बणवादनदण्डाहतिजनितेन । कार्य कारणोपचारः। वक्तव्यं च न कारणमिति । युद्धार्थ निर्यातेति पुरे प्रवदन्ति चेदलाध्यक्षाः सदानी देव्याः सन्निधौ ।
अन्तर्धानं तु तच्छीर्ष तच्च कार्मुकमुत्तमम् । जगाम रावणस्यैव निर्याणसमनन्तरम् ॥ ४०॥ राक्षसेन्द्रस्तु तैः सार्ध मन्त्रिभिर्भीमविक्रमैः । समर्थयामास तदा रामकार्यविनिश्चयम् ॥४१॥ अविदूरस्थितान् सर्वान् बलाध्य क्षान हितैषिणः। अब्रवीत् कालसदृशो रावणो राक्षसाधिपः ॥ ४२ ॥ शीघ्रं भेरीनिनादेन स्फुटकोणाहतेन मे । समानयध्वं सैन्यानि वक्तव्यं च ने कारणम् ॥४३॥ ततस्तथेति प्रतिगृह्य तद्वचो बलाधिपास्ते महदात्मनो बलम् । समानयंश्चैव समागमं च ते न्यवेदयन् भर्तरि युद्धकांक्षिणि ॥४४॥ इत्यार्षे श्रीरामायणेवाल्मीकीये आदिकाव्ये
श्रीमद्युद्धकाण्डे द्वात्रिंशः सर्गः ॥ ३२ ॥ कथितं स्वकीयं रामसैन्यवधवृत्तान्तवाक्यमसत्यमिति तस्याः विदितं स्यादिति भावः ॥ १३ ॥ आत्मनः आत्मनाम् । भर्तरि विषये ॥४४॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वात्रिंशः सर्गः ॥ ३२॥ राक्षसेन्द्र इति । रामकार्यविनिश्चय रामाविषयस्वकर्तव्यनिश्चयमित्यर्थः ॥४१॥ ४२ ॥ शीघ्रमिति । स्फुटकोणाहतेन उल्बणवादन दण्डहतेन । न च वक्तव्य कारणं देण्याः पुरतः स्वोक्तं रामहननविषयवाक्यमसत्यमिति सीता ज्ञास्यतीति शङ्कया वक्तव्यं च न कारणमित्युक्तम् । “सा सीता तच्छिरो दृष्ट्वा तच कार्मुकमुत्तमम्" इत्यारभ्य "इति सा दुःखसन्तप्ता विललापायतेक्षणा" इत्यन्तान सीताप्रलापवाक्यानां वास्तवार्थेऽयमाशया-सीताऽपि रामशिरआदिकं माया कल्पितमिति ज्ञात्वाऽपि तत्सत्यमिति मत्वेव मिध्याप्रलापादिना राक्षसान वश्चयितुं बहुविध प्रलपति ॥ ४३ ॥ ४४ ॥ इति श्रीमहेन्धरतीर्थविरचिताय श्रीरामायणतत्वदीपिकास्पायर्या युद्धकाण्डव्याख्यायाँ द्वात्रिंशः सर्गः ॥ ३२॥
For Private And Personal Use Only