________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥१०७॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिरः धनुश्च । तत्र पुरोदेशे ॥ ३३ ॥ एवमिति । लालप्यमानायां प्रलपन्त्याम् । भर्तारं रावणम् । अनीकस्थः द्वाररक्षी । ननु लौकिकीषु काचिदिव सीता भर्तृशिरस्साक्षात्कारेऽपि चिरं रुदित्वा विलप्य कथं जीवितं धारयति स्म ? उच्यते - अनयोर्दिव्यदम्पत्योः परस्परसत्तैव जीवितधारणे निमित्तम्, नतु ज्ञानाज्ञाने । अतो भर्तुर्जीवितवैकल्याभावात्सा जीवति स्म ॥ ३४ ॥ विजयस्वेति । अनुप्राप्तम्, द्वारीति शेषः ॥ ३५ ॥ वयमिति । इति सा दुःखसन्तप्ता विललापायतेक्षणा । भर्तुः शिरो धनुस्तत्र समीक्ष्य च पुनः पुनः ॥ ३३ ॥ एवं लालप्य मानायां सीतायां तत्र राक्षसः । अभिचक्राम भर्त्तारमनीकस्थः कृताञ्जलिः ॥ ३४ ॥ विजयस्वार्यपुत्रेति सोऽभिवाद्य प्रसाद्य च । न्यवेदयदनुप्राप्तं प्रहस्तं वाहिनीपतिम् ॥ ३५ ॥ अमात्यैः सहितैः सर्वैः प्रहस्तः समुपस्थितः । तेन दर्शनकामेन वयं प्रस्थापिताः प्रभो ॥ ३६ ॥ नूनमस्ति महाराज राजभावात् क्षमान्वितम् । किंचिदात्ययिकं कार्यं तेषं त्वं दर्शनं कुरु ॥ ३७ ॥ एतच्छ्रुत्वा दशग्रीवो राक्षसप्रतिवेदितम्। अशोकवनिकां त्यक्त्वा मन्त्रिणां दर्शनं ययौ ॥ ३८ ॥ स तु सर्व समर्येव मन्त्रिभिः कृत्यमात्मनः । सभां प्रविश्य विदधे विदित्वा रामविक्रमम् ॥ ३९ ॥ भयेन बहुवचनम्, बहूनामन्तःपुरे समागमासम्भवात् ॥ ३६ ॥ प्रहस्तेन प्रेषितोऽपि कथमनवसरे समागतोऽसीत्याशङ्कयाह - नूनमिति । राजभावात् राजत्वाद्धेतोः । क्षमान्वितम्, तदानीमेव कर्तव्यत्वेऽपि तव राजभावात् क्षमया त्वदाज्ञाप्रतीक्षणेनान्वितम् । आत्ययिकम् आतिपातिकम् । किंचित् कार्यमस्ति नूनम् । तत्तस्मात्तेषां प्रहस्तादीनां दर्शनं कुर्वित्यन्वयः ॥ ३७ ॥ ३८ ॥ स रावणः । रामविक्रमं विदित्वा सभां प्रविश्य आत्मनः सर्व कृत्यं मन्त्रिभिः सह समर्थ्य निश्चित्य विदधे, प्रकृतकार्यमिति शेषः ॥ ३९ ॥
एवमिति । भर्तारं रावणम् । अनीकस्थः द्वाररक्षी राक्षसः ॥ ३४॥ आर्यपुत्रशब्दो यद्यपि स्त्रीभिर्भर्तरि प्रयोज्यते प्रायेण, तथापि पूज्यमात्रे सामान्यतः प्रयोगोऽपि बोध्यः ॥ ३५ ॥ ३६ ॥ प्रहस्तेन प्रेषितोऽपि कथमनवसरे समागतोऽसीत्याशङ्कयाह- नूनमिति । हे महाराज ! राजभावात् क्षमान्वितं तदानीमेव कर्तव्यत्वेऽपि तव राज भावात् राजत्वाद्धेतोः क्षमया त्वदाज्ञाप्रतीक्षणेनान्वितम्, आत्ययिकं प्रयाससाध्यं किञ्चित्कार्यमस्ति नूनम्, तस्मात्तेषां महस्तादीनां दर्शनं कुर्बिति योजना ॥ ३७॥ मन्त्रिणां दर्शनम्, उद्दिश्येति शेषः ॥ ३८ ॥ समर्थ्य निश्चित्य ॥ ३९ ॥ ४० ॥
For Private And Personal Use Only
टी.यु.कां. स० ३२
॥ १०७॥