________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
परिपृच्छन्त्यास्तस्याः ते मित्रबलस्य वधं तव वधं चाख्यास्यते ॥२६॥ सति । सुप्तं हतं सुप्तत्वदशायां हतमित्यर्थः। अवदीर्णेन भिन्नेन हृदयेनोपलक्षिता
सा न भविष्यति न जीविष्यति ॥ २७॥ ममेति । अनार्यायाः दुःशीलायाः मम हेतोः मानिमित्तम् । अनईः एतादृशसौप्तिकवधानहः। सागरमुत्तीर्य पागोष्पदे हतः, खरतरखरादीन् हत्या क्षुद्रेण प्रहस्तेन हत इत्यर्थः ॥२८॥रामानु-अनईः एतादृशवधानईः । गोष्पदे दत्तः । अतिवलपराकमखरदूषणादिचतुर्दशसहस्त्र । राक्षसापेक्षया इन्तुः प्रहस्तस्य गोष्पदत्वोक्तिः ॥ २८ ॥ स्वकुलपसिनी स्वकुलदूषणी। अहं मोहात् अज्ञानात् दाशरथेनोढाऽस्मि । अतो रामस्य भायैव मृत्यु
सा त्वां सुप्तं हतं श्रुत्वा मां च रक्षोगृहं गताम् । हृदयेनावदीर्णेन न भविष्यति राघव ॥ २७ ॥ मम हेनोरनार्याया ह्यनर्हः पार्थिवात्मजः ।रामःसागरमुत्तीर्य सत्त्ववान गोष्पदे हतः॥२८॥ अहं दाशरथेनोढा मोहात् स्वकुलपसिनी। आर्यपुत्रस्य रामस्य भार्या मृत्युरजायत ॥२९॥ नूनमन्यां मया जाति वारितं दानमुत्तमम् । याऽहमद्येह शोचामि भार्या सर्वातिथेरपि ॥३०॥ साधु पातय मां क्षिप्रं रामस्योपरि रावण । समानय पतिं पल्या कुरु कल्याणमुत्तमम्
॥३१॥ शिरसा मे शिरश्चास्य कायं कायेन योजय । रावणानुगमिष्यामि गतिं भर्तुर्महात्मनः * ॥ ३२॥ परजायत ॥ २९॥ नूनमिति । मया अन्यां जाति प्राप्य । यद्वा अन्यां जातिम् अन्यस्मिन् जन्मनि । उत्तमं दानं वारितम्, कन्यादानं वारितमित्यर्थः। तत्र हेतुमाह येति । सर्वे अतिथयो यस्य तस्य सर्वातिथेः । सर्वरक्षितरित्यर्थः। सर्वातिथिपूजकस्यति वाऽर्थः । भार्यापि याऽहम् इह जन्मनि । अद्य भोगकाल एवं शोचामि ॥ ३० ॥ साध्विति । समानय योजय । उत्तम कल्याणं पतिसंयोगरूपम् ॥३१॥३२॥ न भविष्यति न जीविष्यति ॥ २७ ॥ अनर्हः । एवंविधवधानहः। सागरमुत्तीर्य गोष्पदे हतः, दुर्धरान् खरादीन् हत्या दुर्बलेन प्रहस्तेन हत इत्यर्थः ॥२८॥ स्वकुल पासनी अहं दाशरथेन रामेण यस्मादूढा आर्यपुत्रस्य रामस्य भार्या भायैव मृत्युरजायतेति सम्बन्धः ॥२९॥ अन्य जातिम् अन्यस्मिन्नपि जन्मनीत्यर्थः । उत्तम दानमित्यनेन कन्यादानं विवक्षितम् । सर्वातिथेः सर्वे अतिथयो यस्य तस्य सर्वातिथिपूजकस्य भार्याऽहं शोचामीति सम्बन्धः॥३०॥ समानय योजय ॥३१-३३॥
• मुहूर्तमपि नेच्छामि जीवितुं पापजीविता । भुतं मया वेदविदां ब्राह्मणानां पितुर्गहे । वासां श्रीणां प्रियो भर्ता तासां लोका महोदयाः । क्षमा बस्मिन् दमस्त्वागः सत्यं धर्मः कृतज्ञता ।। आहंसा चैव भूतानां तमृते का गतिर्मम ।। इत्यधिकः पाठः केचिपुस्तकेषु दृश्यते ॥
For Private And Personal Use Only