________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
पुरुषर्षभेत्यनेन दक्षिणस्य शठत्वमनुचितमिति द्योत्यते ॥ १६ ॥ अर्चितमिति । मया सह । तव त्वया । यदुचितं तत्ते धनुः इदम् एतादृशंजातमित्यर्थः ॥ १७ ॥ पित्रेति । सर्वैः पितृभिः सार्धं स्थितेन दशरथेन समागत इति संबन्धः ॥ १८॥ दिवीति । महत्कर्मकृतां महाकर्मकृताम् । आत्वाभाव आर्षः । प्रियं कर्मफलत्वेन काङ्क्षणीयं पुण्यम् । आत्मनो राजर्षिवंशम् इक्ष्वाकुप्रमुखम्, दिवि नक्षत्रभूतः विमानस्थः सन् समवेक्षसे पश्यसि ॥ १९ ॥ किमिति । अर्चितं सततं यत्तत् गन्धमाल्यैर्मया तव । इदं ते मत्प्रियं वीर धनुः काञ्चनभूषणम् ॥ १७ ॥ पित्रा दशरथेन त्वं श्वशुरेण ममानघ । सर्वेश्च पितृभिः सार्धं नून स्वर्गे समागतः ॥ १८ ॥ दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतां प्रियम् । पुण्यं राजर्षिवंशं त्वमात्मनः समवेक्षसे ॥ १९ ॥
किं मां न प्रेक्षसे राजन किं मां न प्रतिभाषसे । बालां बाल्येन सम्प्राप्तां भार्यां मां सहचारिणीम् ॥ २० ॥ संश्रुतं गृह्णता पाणिं चरिष्यामीति यत्त्वया । स्मर तन्मम काकुत्स्थ नय मामपि दुःखिताम् ॥ २१ ॥
बालां बाल्येन संप्राप्ताम् बाल्य एव त्वयोढामित्यर्थः । भार्यौ सदा भर्तु योग्याम् । माम् एतादृशावस्थामापन्नां सहचारिणीं मां किं न प्रेक्षसे किं न प्रतिभाषस इति सम्बन्धः ॥ २० ॥ संश्रुतमिति । मम पार्णि गृहता त्वया चरिष्यामि सहचरिष्यामीति यत् संश्रुतं प्रतिज्ञातम् तत् स्मर । स्मृत्वा बलात्कृत्य त्वं तथा हृत इति योजना | कालरात्रिः सर्वभूतापहारिणी काचन शक्तिः ॥ १५ ॥ १६ ॥ मया सह तव त्वया अर्चितं धनुरिदमेतादृशं जातमित्यर्थः ॥ १७ ॥ सर्वैः पितृभिस्सार्धं स्थितेन दशरथेन समागत इति सम्बन्धः ॥ १८ ॥ महत्कर्मकृतां महान्तश्च ते कर्मकृतश्च तेषां प्रियं कर्मफलत्वेन काङ्क्ष णीयम् आत्मनः पुण्यं राजर्षिवंशं दिवि नक्षत्रभूतस्त्वं समुपेक्षस इति सम्बन्धः ॥ १९ ॥ २० ॥ त्वया सह चरिष्यामीति मम पार्णि गृहता भवता यत्संश्रुतं
स० [सर्वैः पितृभिः पितामहादिभिस्सार्धं स्थितेन त्वदपेक्षया पूर्व गतत्वात् । पित्रा श्वशुरेण दशरथेन स्वर्गे समागतः मिलितः । "पितामहाद्याश्च पितरो नाम कीर्तिताः" इत्येतरेयभाष्योक्तेः पितामहादीनां पितृशब्दवाच्यता सम्मवति । अनत्यनेन पुण्पलभ्यस्वर्गगतियोग्यतां सूचयति ॥ १८ ॥ दिवि नक्षत्रभूतस्त्वं महत्कर्मकृतं महतां कर्म महत्कर्म तत्कृतं महात्मनां पुण्यकर्मफलत्वेन प्राप्यं राजर्षिवंशम् क्ष्वाकु वंशम् किमुपेक्षसे । बहुकर्म कृत्वाऽस्माकमिवाकुवंशसम्भवः स्यादिति कांक्षितं वंशं किमुपेक्षसे, उपेक्ष्य गत इति यावत् । दिवि नक्षत्रभूतं प्रकाशमानमिति यावत् । महत्कर्मकृतं पुण्यं राजर्षिवंशं पित्रादिकं यथा राम ईक्षसे पश्यति तत्र गतः । तथा पुण्यम् आत्मनो गम राजर्षिवंशं जनकवंशम् किमुपेय से मदनयनेनेति वा ॥ १९ ॥
For Private And Personal Use Only