________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. .१०५॥
टी.पुरको
०३२
कारणभूतः । अयं कालः परमात्मा । यथा येन प्रकारेण । एनं पचनविषयभूतम् । पचति पक्ककर्माणं करोति। तथा प्राज्ञस्य भविष्यदर्थवेदिनोऽपि सतः सत्पुरुषस्य प्रज्ञा । तव त्वयि विषये । नश्यति नष्टेत्यर्थः । यद्वा पूर्वमचिन्त्यपराक्रमति तव कथं विपत्तिरित्यभिप्रायेण सम्बोधितम् । तत्र पक्षा न्तरमाह-अथवेति । एनं रामम् । येन प्रकारेण कालः पचति तथाऽस्य प्राज्ञस्यापि प्रज्ञा नश्यति । अतो विपत्तिरियमिति भावः॥ १३॥ हि यस्माद् व्यसनानां वर्जने प्रतिरोधे कुशलोऽसि । अतः अदृष्टम् अचिन्तितं सौप्तिकत्वेनादृष्टं वा मृत्युम् । कस्मादापन्नः कथमापनोऽसीत्यर्थः ॥ ११॥
अदृष्टं मृत्युमापन्नः कस्मात्त्वं नयशास्त्रवित् । व्यसनानामुपायज्ञः कुशलो ह्यसि वर्जने ॥१४॥ तथा त्वं सम्परिष्वज्य रौद्रयाऽतिनृशंसया। कालराच्या ममाच्छिद्य हृतः कमललोचन ॥ १५॥
उपशेषे महाबाहो मां विहाय तपस्विनीम् । प्रियामिव समाश्लिष्य पृथिवीं पुरुषर्षभ ॥ १६॥ रौद्या क्रूरया । कालराच्या यस्यां रात्रौ समुद्रतीरे निविष्टोऽसि तया राज्या । सम्परिष्वज्य । मम मत्तः । आच्छिद्य अपहृत्य । तथा हृतोऽसीति | सम्बन्धः। यद्वा मयेति पाठः । रौद्रया अतिनृशंसया । अत्यन्तनिर्दयया कालराव्या का । मया करणभूतया । संपरिष्वज्य आच्छिद्य बलात्कृत्य। तथा हृत इति । कालरात्रिर्नाम सर्वभूतापहारिणी काचन शक्तिः । यद्वा मया कालराव्येति व्यस्तरूपकम् । सम्परिष्वज्य त्वमाच्छिय बलाद्धृतो ऽसीति, घोरखैधव्यलक्षणयुक्तत्वेन कराया मे परिष्वङ्ग एव तेऽन्तहेतुरासीदित्यर्थः। शिरश्छेदादेरश्लीलत्वेन तथेत्युक्तम् । कमललोचनेति हेतुगर्भम् । कमललोचनत्वात् त्वं कालराव्या हृतोऽसि । परिकरानुप्राणितरूपकालङ्कारः ॥१५॥ उपशेष इति । तपस्विनी शोचनीयाम् । प्रियां मत्तः प्रियाम् । तेषामपि प्रज्ञा नष्टेति पक्षान्तरमवलम्वते-अथवेति । भूतानां प्रभवः कालो यथा येन कारणेन एनं त्वां पचति मारयति तेन कारणेन प्राज्ञस्यापि सतः भविष्यदर्थज्ञानवतोऽपि सत्पुरुषस्य त्वद्विषये प्रज्ञा नश्यतीत्यर्थः ॥ १३ ॥ अदृष्टमिति । व्यसनाना वर्जने प्रतिरोधे कुशलोऽसि अथवाप्येतादृशोपायज्ञः । अदृष्टमचिन्तितं मृत्यु कस्मादापत्रः कथं प्राप्नोषीति योजना ॥ १४ ॥ कमललोचन ! मया हेतुना, रौद्रया नृशंसया कालराव्या सम्पारष्वज्य आच्छिद्य पक्षान्तरमाश्रित्य प्रकृतः । प्राज्ञस्यापि सतः दैवज्ञसवस्य तव विषये प्रज्ञा नश्यति नष्टा, अतस्तधनानुतीभवनमुचितम् | तमाशे निमितमाह पचतीति । एनं देव भूतानां प्रभवः कालः प्रभवोऽस्यास्तीत्यच् प्रमवत्यस्मिन्निति] वा उत्पत्तिकालः । तथा यथावचनमनूतं मवेत्तथा पचति परिपार्क नयति, तस्यातिसममत्वादिति भावः । पूर्व देवरिति बहुवचनम अप्र प्राज्ञस्पेत्येकवचनं च वक्तारो बहुलाः, प्रज्ञा तु स्वदेकोच्छ्रायविषषेति सम्भवतः॥१३
स-प्रियामिव मदपेक्षया पृथिवी नारी तद्रूपा रमणीम्, आलिमयेति शेषः । यद्वा प्रियां तपस्विनी नारी भार्या मामिव पृथिवी पितृपितामहादिपालितामपि विहाय इह रक्षोरक्षितक्षितौ शेष हत्यर्थः ॥१०॥
For Private And Personal Use Only