SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra वा.रा.भू. ॥१०४ : www.kobatirth.org हत इति । कलहशीलया कलहस्वभावया, कलहप्रयोजनयेति यावत् । त्वया सर्वे कुलं रघुवंशः उत्सादितं भवति । तथा कुलनन्दनोऽयं रामो इतः । प्रत्राजनव्याजेन रामहननमेव त्वया सङ्कल्पितं तदिदानीं विपरीतफलं ते जातम् । कुलतन्तुभूतरामहननेन तदेकपराः सर्वे भरतादयो हृता एव । कलह एव ते प्रयोजनं फलितमिति भावः ॥ ४ ॥ हेत्वन्तराभावादिदमेव रामवनप्रवाजने हेतुरित्याह- आर्येणेति । आर्येण सर्वप्रियकारिणेत्यर्थः । आर्येण किं ते कैकेय कृतं रामेण विप्रियम् । यन्मया चीरवसनस्त्वया प्रस्थापितो वनम् ॥ ५ ॥ एवमुक्त्वा तु वैदेही वेपमाना तपस्विनी। जगाम जगतीं बाला छिन्ना तु कदली यथा ॥ ६ ॥ सा मुहूर्तात् समाश्वस्य प्रतिलभ्य च चेतनाम् । तच्छिरः समुपाघ्राय विललापायतेक्षणा ॥ ७ ॥ हा हतास्मि महाबाहो वीरव्रतमनुव्रत । इमां ते पश्चिमावस्थां गतास्मि विधवा कृता ॥ ८ ॥ प्रथमं मरणं नार्या भर्तुर्वैगुण्यमुच्यते । सुवृत्त साधुवृत्तायाः संवृत्तस्त्वं ममाग्रतः ॥ ९ ॥ Acharya Shri Kailassagarsuri Gyanmandir यत् येन कारणेन मया सह चीरवसनो रामः प्रस्थापितः तादृशं विप्रियं किं कृतम् ॥ ५ ॥ एवमिति । तपस्विनी शोचनीया । जगतीं भूमिं जगाम । मूच्छितेत्यर्थः । बाला मृदुबुद्धिरित्यर्थः ॥ ६ ॥ समाश्वस्य उच्छ्वासं प्राप्य । चेतनां ज्ञानम् । आयतेक्षणा अश्रुमिश्रत्वेन शिरोवलोकनार्थ विस्तृत विलोचनेत्यर्थः ॥७॥ वीरव्रतं शत्रुमहत्वा न निवर्तिष्य इति सङ्कल्पम् । अनुव्रत अनुप्राप्त । गताऽस्मि दृष्टवत्यस्मि । गत्यर्था ज्ञानार्था इति न्यायात् । अतो विधवा कृता ॥८॥ प्रथमं भर्तुर्मरणं भार्यादोषनिमित्तकं भवति तत्त्वत्र न पश्यामीत्याह - प्रथममिति । प्रथमं भर्तुर्मरणं नार्या वैगुण्यं वैगुण्यहेतु कम् । सुवृत्तस्त्वं साधुवृत्ताया ममाग्रतः संवृत्तः मृतः, कथमिदं सङ्गच्छत इति भावः । अस्मिन् पक्षे न सुवृत्तपदस्वारस्यम् । यद्वा भवन्मरणस्य मद्दोष एव हेतुरित्याह- प्रथममिति । विगुण एव वैगुण्यम् । स्वार्थे ष्यञ् । प्रथमं भर्तृमरणं भार्यादोषनिमित्तकमिति सुप्रसिद्धम् । अतो हे सुवृत्त साधुवृत्त ! आर्येण रामेणेत्यन्त्रयः । चीरवसनं दत्वा मया सह प्रब्राजित इत्यन्वयः ॥ ५ ॥ ६ ॥ तच्छिरस्समुपास्थाय इति पाठः । समुपास्याय स्वसमीपे स्थापयित्वा ॥ ७ ॥ वीरव्रतमनुव्रत वीरव्रतस्पा चरणशील । गताऽस्मि दृष्टवत्यस्मि ॥ ८ ॥ प्रथमं भर्तृमरणं नार्या वैगुण्यं दुश्चारित्रहेतुकमुच्यते । तथा सति साधुवृत्ताया मम For Private And Personal Use Only टी.यु.कां. स० ३२ ॥ १०४ ॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy