________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
.१०३॥
प्रत्याज्ञापनवचनश्रवणानन्तरमेव ॥ ३९॥४०॥ पश्चिमामवस्थाम, मरणमित्यर्थः ॥ ११॥ उप समीपे । अन्तरधीयत अपागच्छत् ॥४२॥चिक्षेप आचकर्ष । विद्युजिह्वहस्तादित्यर्थः । त्रिषु लोकेषु विख्यातम्, वैष्णवत्वादिति भावः ॥ १३॥ १४ ॥ स इति । विद्युजिह्वत्पत्र तलोप आर्षः। सदैव
अग्रतः कुरु सीतायाः शीघ्र दाशरथेः शिरः। अवस्था पश्चिमां भर्तुः कृपणा साधु पश्यतु ॥४१॥ एवमुक्तं तु तद्रक्षः शिरस्तत् प्रियदर्शनम् । उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥४२॥ रावणश्चापि चिक्षेप भास्वर कार्मुकंमहत् । त्रिषु लोकेषु विख्यातं सीतामिदमुवाच च ॥४३ ॥ इदं तत्तव रामस्य कार्मुकं ज्यासमायुतम् । इह प्रहस्तेनानीतं हत्वा तं निशि मानुषम् ॥४४॥ स विद्युजिह्वेन सहैव तच्छिरोधनुश्च भूमौ विनीकीर्य रावणः । विदेहराजस्य सुतां यशस्विनी ततोऽब्रवीत्ता भव मे वशानुगा ॥४५॥ इत्याचे श्रीरामायणे वाल्मीकीये
आदिकाव्ये श्रीमयुद्धकाण्डे एकत्रिंशः सर्गः ॥३३॥ युगपदेव । विनिकीर्य शिरो धनुश्च युगपत् सीतायाः पुरतः स्थापयित्वेत्यर्थः । विद्युजिह्वः शिरः प्रक्षिप्तवान्, स्वयं धनुरिति ज्ञेयम् । वशानुगेत्यनन्तर । मितिकरणं द्रष्टव्यम् ॥ ४५ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशः सर्गः ॥ ३ ॥ पवमुक्तमिति । अन्तरधीयत अपागच्छत् ॥ ४२ ॥ चिक्षेप आचकर्ष ॥४३॥४॥ सहेव युगपदेव । विनिकीर्य सीतायाः पुरतः स्थापयित्वा ॥' उपसृत्य ततस्सीता महर्षनाम कीर्तयन् ' इत्यारभ्य सर्गसमाप्तिपर्यन्तस्य वास्तवार्थस्तु-रावणस्तु देवी स्पष्टं देवतात्वेन ज्ञात्वाऽपि रामहस्तादधेच्छुरपि रावणो रामेण सह वैरं सम्पाद्य | मृत इति इतरराक्षसवक्षनाय देवीमोहनार्थमिव श्रीराममायाशिरआदिकं प्रदर्श्य रामवधशङ्कया मोहितां देवीं रहसि प्रियवचनैस्समाश्वासयति-उपमृत्येत्यारभ्य | सर्गसमाप्तिपर्यन्तेन । उपसृत्य समीपं प्राप्य महर्षन प्रहर्षयन दुष्टं वचनम् इतरराक्षसदृष्टया दुष्टमित्यर्थः । सान्त्व्यमानेति । रामस्य कापि हानिर्नास्तीति मया सान्यमानाऽपि यं राममुपाश्रित्य उद्दिश्य बलासे दुःखेन धावसीत्यर्थः। खरहन्ता स ते भर्ता समरे हतोऽथ किम्, न हत एवेत्यर्थः। अतो दुःख मा प्राप्नुहीति शेषः। मम दुःखेन तव का हानिरित्याशङ्कचाह-छिन्नमिति । हे सीते! आत्मनस्तव व्यसनेन हेतुना ते त्वया ते मम त्वदीयभृत्यस्य ममेत्यर्थः। दर्पःमया लक्ष्म्या सह सर्वतः सर्वप्रकारेण निहतः मूलं च लक्ष्म्यागमननिमित्तमपि छिन्नम्, अतो भार्या मर्तव्या भविष्यसि, रामेणैवेति शेषः । अतो दुम्खं मा प्राप्नुहीत्यर्थः । विसजे
For Private And Personal Use Only