________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
जाम्बवान् निकृत्तः पादप इवाभूत् ॥ २७ ॥ व्यायतौ दीर्घशरीरो । मध्ये कटिस्थाने ॥ २८ ॥ अनुतिष्ठति शेते । पनसः पनसफलम् । तथा खण्डित || इत्यर्थः ॥ २९ ॥ निष्कूजः निःशब्दः ॥ ३० ॥ राक्षसेरासाद्य शरैश्छिन्नः निपतिताङ्गदोऽङ्गदः क्षितौ पतितः ॥ ३१ ॥ शायिताः शयानाः । अपरे हरयः मैन्दश्च द्विविदश्वोभ निहतौ वानरर्षभौ । निश्वसन्तौ रुदन्तौ च रुधिरेण परिप्लुतौ । असिना व्यायतो छिन्नौ मध्ये ह्यरिनिषूदनौ ॥ २८ ॥ अनुतिष्ठति मेदिन्यां पनसः पनसो यथा ॥ २९ ॥ नाराचैर्बहुभिश्छिन्नः शेते दर्या दरीमुखः । कुमुदस्तु महातेजा निष्कजः सायकैः कृतः ॥ ३० ॥ अङ्गदो बहुभिश्छिन्नः शरैरासाद्य राक्षसैः । पतितो रुधिरो द्वारी क्षितौ निपतिताङ्गदः ॥ ३१ ॥ हरयो मथिता नागै रथजातैस्तथाऽपरे । शायिता मृदिताश्वाश्चैर्वायुवेगैरिवा म्बुदाः ॥ ३२ ॥ प्रहृताश्चापरे त्रस्ता हन्यमाना जघन्यतः । अभिद्रुतास्तु रक्षोभिः सिंहेरिव महाद्विपाः ॥ ३३ ॥ सागरे पतिताः केचित् केचिद्द्गनमाश्रिताः । ऋक्षा वृक्षानुपारूढा वानरीं वृत्तिमाश्रिताः ॥ ३४ ॥ सागरस्य च तीरेषु शैलेषु च वनेषु च । पिङ्गलास्ते विरूपाक्षैर्बहुभिर्बहवो हताः ॥ ३५ ॥ एवं तव हतो भर्ता ससैन्यो मम सेनया । क्षतजाई रजोध्वस्तमिदं चास्याहृतं शिरः ॥ ३६ ॥ ततः परमदुर्धर्षो रावणो राक्षसाधिपः । सीतायामुपशृण्वन्त्यां राक्षसीमिदमब्रवीत् ॥ ३७ ॥ राक्षसं क्रूरकर्माणं विद्युज्जिह्वं त्वमानय । येन तद्राघवशिरः सङ्ग्रामात् स्वयमाहृतम् ॥ ३८ ॥ विद्युज्जिह्नस्ततो गृह्य शिरस्तत् सशरासनम् । प्रणामं शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥ ३९ ॥ तमब्रवीत्ततो राजा रावणो राक्षसं स्थितम् । विद्युज्जिह्वं महाजिह्वं समीपपरिवर्त्तिनम् ॥ ४० ॥
वायुवेगैरम्बुदा इव नांगै रथजातैश्च मृदिताः ॥ ३२ ॥ त्रस्ताः अत एवाभिद्रुताः । जघन्यतः पृष्ठतः । इन्यमानाः अपरे हरयः सिंहः द्विपा इव प्रहृताः ॥ ३३ ॥ ३४ ॥ पिङ्गलाः वानराः । विरूपाक्षैः वानरैः ॥ ३५ ॥ ३६ ॥ राक्षसी समीपवर्तिनी कांचित् ॥ ३७ ॥ ३८ ॥ विद्युजिह्व इति । ततः राक्षसी निष्कूजः निश्शब्दः ॥ ३०-३६ ।। राक्षसीं सीतासमीपवर्तिनीम् ॥ ३७-४१ ।।
For Private And Personal Use Only