________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
AM
पा.रा.भ. प्रणीतेन आनीतेन ॥ १८॥ स रामः समुद्रस्योत्तरं तीरं महता बलेन पीडय पीडयित्वा दिवाकरे अस्तं प्रयाति सति निविष्टः ॥१९॥ अथेति । कात्स्न्ये टी.यु. ॥१०॥
अथशब्दः । अध्वनि परिश्रान्तमत एव स्थितम् । अर्द्धरात्रे सुखसंसुप्तं बलं प्रथममासाद्य चारैश्चारितमभूत् ॥२०॥ यत्र बले । रामः सलक्ष्मणोऽवस्थितः सातदस्य बलं प्रहस्तप्रणीतेन महता बलेन हतम् ॥२१॥ पदिशानित्यादिशोकद्वयम् । पटिशान असिविशेषान् । परिधान अर्गलानि । चक्रान क्षुद्र
स निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् । बलेन महतारामो बजत्यस्तं दिवाकरे ॥ १९॥ अथाध्वनि परिश्रान्त मर्धरात्रे स्थितं बलम् । सुखसंसुप्तमासाद्य चारितं प्रथमं चरैः ॥२०॥ तत्प्रहस्तप्रणीतेन बलेन महता मम । बलमस्य हतं रात्रौ यत्र रामः सलक्ष्मणः॥२१॥ पट्टिशान परिघांश्चक्रान् दण्डान खङ्गान महायसान । बाणजालानि शूलानि भास्वरान कूटमुद्गरान् ॥२२॥ यष्टीश्च तोमरान शक्तीश्चक्राणि मुसलानि च । उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ॥ २३ ॥ अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना । असक्तं कृतहस्तेन शिरश्छिन्नं महासिना ॥२४॥ विभीषणः समुत्पत्य निगृहीतो यदृच्छया। दिशः प्रवाजितः सर्वेर्लक्ष्मणः प्लवगैः सह ॥ २५ ॥ सुग्रीवो ग्रीवया सीतेभनया प्लवगाधिपः । निरस्तहनुकः शेते हनुमान राक्षसैर्हतः ॥ २६ ॥ जाम्बवानथ जानुभ्यामुत्पतनिहतो युधि । पट्टिशैर्बहुभिश्छिन्नो निकृत्तः पादपो यथा ॥२७॥ चकाणि । महायप्तान महायसानीर्मतान् । दण्डविशेषणमेतत् । कूटमुद्रान् अयःकीलकीलितगदाः । यष्टीः केवलदण्डान् । तोमरान् स्थूलाग्रगदाः। प्रासान क्षेपणीः । चकाणि महाचक्राणि । पहिशादीनुद्यम्योद्यम्य वानरेषु निपातिताः, तइति शेषः ॥ २२ ॥२३॥ प्रमन्नाति प्रहरतीति प्रमाथिः तेन । कृतहस्तेन शिक्षितहस्तेन का । महासिना करणेन । असक्तम् अविलम्बितं यथा भवति तथा छिनमित्यन्वयः॥२४॥ विभीषणः समुत्पत्य गतोऽपि निगृहीत इत्यर्थः । प्रवाजितः पलायितः ॥२५॥ सुग्रीव इति । ग्रीवया, उपलक्षित इति शेषः॥२६॥ जानुभ्यां जानुनोः निहतः । अथ पट्टिशैश्छिन। अध्वनि परिश्रान्तं स्थितम् । अर्धरात्रे सुखसंसुतं बलं समासाद्य । चरैः चारितम्, अभूदिति शेषः । पट्टतादीनुद्यम्योद्यम्य पट्टसादयो वानरेषु निपातिता इत्यर्थः ॥ २०-२३ ॥ अयेति । प्रमायिना प्रमथनशीलेन । कृतहस्तेन सुशिक्षितहस्तेन । असक्तं यथा तथा शिररिकनमिति सम्बन्धः ॥ २५-२९ ॥
॥१०॥
For Private And Personal Use Only