________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
सजीकृताः। शिताः तीक्ष्णाः । कालायसमया अयस्सारमयाः । ङीवभाव आर्षः। “ अनोइमायस्सरसां जातिसंज्ञयोः" इति समासान्तः । शतं मन्तीति शतघ्न्यः मुद्ररविशेषाः । “अमनुष्यकर्तृके च" इति ठक् । शतशः बहुशः । रचिताः स्थापिताः ॥ १३॥ सौवर्ण इति । तस्याः प्राकारो
सौवर्णश्च महांस्तस्याः प्राकारो दुष्प्रधर्षणः । मणिविद्रुमवैडूर्यमुक्ताविरचितान्तरः ॥ १४ ॥ सर्वतश्च महाभीमाः शीततोयवहाः शुभाः। अगाधा ग्राहवत्यश्च परिखा मीनसेविताः ॥ १५॥ द्वारेषु तासां चत्वारः सङ्कमाः परमायताः। यन्त्रैरुपेता बहुभिर्महद्भिर्गृहपंक्तिभिः ॥ १६॥ त्रायन्ते सङ्कमास्तत्र परसैन्यागमे सति ।यन्त्रैस्तैरवकीर्यन्ते परिखासु समन्ततः॥ १७ ॥
एकस्त्वकम्प्यो बलवान् सक्रमः सुमहादृढः । काञ्चनैर्बहुभिस्स्तम्भैर्वेदिकाभिश्च शोभितः ॥ १८॥ दुष्प्रधर्षणः, दुरारोह इत्यर्थः । मणयः पद्मरागाः ॥ १४॥ सर्वतः प्राकारमभितः । परिखाः, सन्तीति शेषः । शीततोयत्वेन दुष्प्रवेशत्वमुक्तम्॥१५॥ द्वारेषु द्वारसमीपप्रदेशेषु । सामीप्ये सप्तमी । तासां परिखाणां सम्बन्धिनः परिखोपरिकप्ता इत्यर्थः । संक्रमाः दारुफलकनिर्मितसञ्चारमार्गाः । “संक्रमः। क्रमणे सम्यक् द्वारसञ्चारयन्त्रके" इति विश्वः । परमायताः अतिविपुलाः। यन्त्रैरिति । यन्त्रैः संकमावकीर्यकैः। महद्भिरिति यन्त्रविशेषणम् । गृह पतिभिः रक्षिजनावासस्थानपतिभिः । उपेताः, सन्तीति शेषः॥ १६॥ संक्रमाणामुपयोगमाह-त्रायन्त इति । तत्र द्वारप्रदेशेषु । परसैन्यागमे सति संक्रमाःत्रायन्ते, पुरीमिति शेषः । कथमित्यत्राह यन्त्रेरिति । यन्त्रैः संक्रमफलकविक्षेपयन्त्रैः । परिखासु परिखोपरि । समन्ततः अवकीर्यन्ते क्षिप्यन्ते ।।
सर्वथा परिखाजलोपरि फलका निक्षिप्यन्ते । शत्रुसैन्यागमे तु ता उत्क्षिप्यन्ते । तेन दुर्गपरिखाजलेन प्राकारसमीपगमनं न शक्यत इति श्लोकतात्प कार्यम् ॥ १७ ॥ एक इति । तेषु संक्रमेषु । एकः उत्तरद्वारस्थः । बलवान् स्थौल्यवान् । सुमहादृढः अत्यन्तवृद्धसङ्घटनः । अत एवाकम्प्यः । स्तम्भः
प्रमाणा मुगरविशेषाः । “शतघ्री च चतुईस्ता कथिता लोहकण्टकी" इति वैजयन्ती ॥ १३-१५॥ द्वारेषु द्वारप्रदेशेषु तासा संक्रमाः परिखाणां सम्बन्धिन संक्रमाः, सन्तीति शेषः । संक्रमो नाम पुरद्वारप्रदेशेषु परिवोपरि सचरणार्थ मञ्चरूपेण बद्धो मार्गविशेषः । “संक्रमः क्रमणे सम्यग्द्वारसधारयन्त्रके " इति विश्वः॥ १६ ॥ संक्रमाणामुपयोगमाह-त्रायन्त इति । तत्र तेषु द्वारप्रदेशेषु परसैन्यागमे सति तानि परसैन्यानि तेः स्वनिष्ठेर्यन्वैः परिखासु समन्ततः अवकीर्यन्ते ।
For Private And Personal Use Only