________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
भा.रा.भ.
कात्स्न्येनात्रवीत् । “मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथा अथ" इत्यमरः ॥६॥ दुर्गकर्मविधानतः दुर्गकर्म प्राकारपरिखाखननादि, तद्वितीय धानतः तन्निर्माणेन गुप्तेति सम्बन्धः । राक्षसाः स्निग्धाः स्वामिनि भक्ताः। तेजसा, संपादितामिति शेषः। विभागं तत्र तत्र विभज्य स्थापनम् । बली
श्रूयतां सर्वमाख्यास्ये दुर्गकर्मविधानतः । गुप्ता पुरी यथा लङ्का रक्षिता च यथा बलैः॥७॥ राक्षसाश्च यथा स्निग्धा रावणस्य च तेजसा । परां समृद्धिं लङ्कायाः सागरस्य च भीमताम् । विभागं च बलौघस्य निर्देशं वाहनस्य च ॥८॥ एवमुक्त्वा कपिश्रेष्ठः कथयामास तत्त्वतः ॥ ९ ॥ हृष्टप्रमुदिता लङ्का मत्तद्विपसमाकुला । महती रथसम्पूर्णा रक्षोगणसमाकुला । वाजिभिश्च सुसम्पूर्णा सा पुरी दुर्गमा परैः ॥ १०॥ दृढबद्धकवाटानि महा परिघवन्ति च । दाराणि विपुलान्यस्याश्चत्वारि सुमहान्ति च ॥ ११॥ तत्रेषूपलयन्त्राणि बलवन्ति महान्ति च। आगतं परसैन्यं तु तत्र तैः प्रतिहन्यते ॥१२॥ द्वारेषु संस्कृता भीमाः कालायसमयाः शिताः । शतशो
रचिता वीरैः शतघ्न्यो रक्षसां गणैः ॥ १३॥ घस्य चतुरङ्गवलसमूहस्य । निर्दिश्यते इयत्तया परिच्छिद्यतेऽनेनेति निर्देशः सङ्ख्या ताम् ॥ ७॥ ८॥ एवमित्यर्धम् । एवमुक्त्वा उक्तरत्यिा वक्ष्यमाणं संग्रहेण प्रतिज्ञाय ॥ ९॥ हृष्टप्रमुदिता अत्यन्तदृष्टजना ॥१०॥ हृढेति ।आयसकीलादिभिदृढघटितकवाटानि । महापरिघवन्ति महार्गलवन्ति । "अर्गले काचके वंशे योगे प्राकारगोपुरे । अस्ने घटे मुद्गरे च परिषः परिपठ्यते" इति निघण्टुः । सुमहान्ति उन्नतानि ॥ ११ ॥ तत्र तेषु द्वारेषु । इषूपल यन्त्राणि शरशिलाक्षेपकयन्त्राणि । बलवन्ति दृढानि । महान्ति विपुलानि, सन्तीति शेषः।तेः यन्त्रः तत्र द्वारेषु प्रतिहन्यते प्रतिबध्यते॥१२॥ संस्कृताः दुर्गकर्मविधानतः ला यथा गुप्तेति सम्बन्धः ॥ ७॥ तेजसा, सम्पादितामिति शेषः । विभागमिति । बलौघस्य चतुरङ्गबलसमहस्य विभागं इस्त्यश्वाद्य वान्तरभेदं तब तब विभज्य स्थापनम् । निर्देशं निर्दिश्यते इयत्तया अनेनेति निर्देशः सङ्ख्या ताम् ॥ ८॥९॥ इष्टप्रमुदिता मुदितोखतराक्षसेत्यर्थः ॥१०॥ महाn परिघवन्ति महार्गलवन्ति । "परिधो योगभेदे स्यान्मुद्रेर्गलघातयोः" इति विश्वः । द्वाराणि, सन्तीति शेषः ॥ ११ ॥ तत्र तेषु पलयन्त्राणि वाण शिलामोचनयन्त्राणि ॥ १२॥ द्वारेषु द्वारप्रदेशेषु । संस्कृताः सज्जीकृताः । कालापसमयाः अयस्तारमयाः । शतध्यो नाम सकृत्प्रयोगाच्छतमारकाः चतुर्वितस्ति
For Private And Personal Use Only