________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
सिंहसंहननः रमणीयावयवसन्निवेशवान्। " वराङ्गरूपोपेतो यः सिंहसंहननो हि सः" इत्यमरः ॥ २९ ॥ ३० ॥ वक्तुमिति । ये जनस्थानगताः ते यावन्तः ते सर्वेऽपि हृता इत्यर्थः । “यावत्तावच्च साकल्ये" इत्यमरः ॥ ३१ ॥ लक्ष्मण इति । चशब्देन दशरथस्य पुत्र इत्याकृष्यते । मातङ्गानामिवर्षभः
पुत्रो दशरथस्यैष सिंहसंहननो युवा । दूषणो निहतो येन खरश्च त्रिशिरास्तथा ॥ २९ ॥ नास्ति रामस्य सदृशो विक्रमे भुवि कश्चन । विराधो निहतो येन कबन्धश्चान्तकोपमः ॥ ३० ॥ वक्तुं न शक्तो रामस्य नरः कश्चिद् गुणान् क्षितौ । जनस्थानगता येन यावन्ता राक्षसा हताः ॥ ३१ ॥ लक्ष्मणश्चात्र धर्मात्मा मातङ्गानामिवर्षभः । यस्य बाणपथं प्राप्य न जीवेदपि वासवः ॥ ३२॥ श्वेतो ज्योतिर्मुखश्चात्र भास्करस्यात्मसम्भवौ । वरुणस्य च पुत्रोऽन्यो हेमकूटः प्लवङ्गमः ॥३३॥ विश्वकर्मसुतो वीरो नलः प्लवगसत्तमः । विक्रान्तो बलवानत्र वसुपुत्रः सुदुर्धरः ॥ ३४ ॥ राक्षसानां वरिष्ठश्च तव भ्राता विभीषणः । परिगृह्य पुरीं लङ्कां राघवस्य हिते रतः ॥ ३५ ॥ इति सर्व समाख्यातं तवेदं वानरं बलम् । सुवेलेऽधिष्ठितं शैले शेषकार्ये भवान् गतिः ॥ ३६ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदि काव्ये श्रीमद्युद्धकाण्डे त्रिंशः सर्गः ॥ ३० ॥
|| गजश्रेष्ठ इव स्थितः ॥ ३२ ॥ ३३ ॥ सुदुर्धरः सुदुर्धरनामा ॥ ३४ ॥ राक्षसानामिति । लङ्कां रामात् परिगृह्य तस्य हिते रतो विभीषणस्तव भ्रातेत्य न्वयः ॥ ३५ ॥ गतिः प्रमाणम् । अत्र वानरजन्मोक्तेः प्रायशो बालकाण्डोक्तविरोधादेतत्सर्गे विनापि पूर्वोत्तरकथासङ्घट्टनाच्च सर्वोऽयं कल्पित इत्याहुः ॥ ३६ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिंशः सर्गः ॥ ३० ॥
वक्तुमिति । जनस्थानगता यावन्तो राक्षसाः ते सर्वे येन निहताः तस्य गुणान् वकुं न शक्त इति सम्बन्धः ॥ ३१-३३ ॥ विश्वकर्मेति । दुर्धरः दुर्धराख्यः ॥ ३४ ॥ ३५ ॥ गतिः प्रमाणम् । नन्वत्र सर्गे धर्मस्य पुत्रः सुषेणः । वैवस्वतपुत्रौ शरभगन्धमादनावित्युच्येते । बालकाण्डे तु " वरुणो जनयामास सुषेणं नाम वानरम् । शरभं जनयामास पर्जन्यस्तु महाबलम् । धनदस्य सुतः श्रीमान वानरो गन्धमादनः ॥ " इति त्रयाणामन्यत उत्पत्तिरुक्ता । सत्यम् ; सुषेणादिसंज्ञा वतामनेकेषामपि सत्त्वान्न विरोधः ॥ ३६ ॥ इति श्रीमहेश्वर तीर्थविरचितायां श्रीरामायणतत्त्वदीपिकारूषायां युद्धकाण्डव्याख्यायां त्रिंशः सर्गः ॥ ३० ॥
For Private And Personal Use Only