________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.म.
॥१०॥
गद्गदस्यैवेति । अन्यः पुत्रः धूमः । जाम्बवान् धूम्रश्चति गद्गदस्य द्वौ पुत्रावित्यर्थः। यस्य पुत्रेणेकेन महता रक्षसाम् अक्षादीनां कदनं इननं कृतम्, टी.गु.का, स केसरी शतकतोर्युरुः बृहस्पतिः तस्य पुत्रः । सापेक्षत्वेऽपि गमकत्वात् समासः ॥२२॥धर्मस्य देवतायाः । ननु “वरुणो जनयामास सुषेणं नाम | स०३० वानरम्" इति बालकाण्डोक्तम् । सत्यमुक्तम् । स एवात्र धर्मशब्देनोच्यते । शार्दूलो वा भयाकुलोऽन्यथा श्रुतवान् । अन्योऽयं सुषेण इत्यप्याहुः ।
गद्गदस्यैव पुत्रोऽन्यो गुरुपुत्रः शतक्रतोः। कदनं यस्य पुत्रेण कृतमेकेन रक्षसाम् ॥ २२ ॥ सुषेणश्चापि धर्मात्मा पुत्रो धर्मस्य वीर्यवान् । सौम्यः सोमात्मजश्चात्र राजन् दधिमुखः कपिः ॥ २३ ॥ सुमुखो दुर्मुखश्चात्र वेगदी च वानरः । मृत्युर्वानररूपेण नूनं सृष्टः स्वयंभुवा ॥ २४ ॥ पुत्रो हुतवहस्याथ नीलः सेनापतिः स्वयम् । अनिलस्य च पुत्रोऽत्र हनुमानिति विश्रुतः ॥२५॥ नप्ता शक्रस्य दुर्धर्षों बलवानङ्गन्दो युवा । मैन्दश्च द्विविदश्चोभौ बलिनावश्वि सम्भवौ ॥ २६ ॥ पुत्रा वैवस्वतस्यात्र पञ्च कालान्तकोपमाः।गजो गवाक्षो गवयः शरभो गन्धमादनः ॥ २७ ॥
दश वानरकोट्यश्च शूराणां युद्धकांक्षिणाम् । श्रीमतां देवपुत्राणां शेषं नाख्यातुमुत्सहे ॥ २८॥ एवमन्यत्रापि ज्ञेयम् ॥ २३॥ मृत्युरेव स्वयंभुवा सुमुखादिवानररूपेण सृष्टः, सुमुखादयो मृत्युतुल्या इत्यर्थः । यद्वा सुमुखादयो मृत्युपुत्रा इत्यर्थः । ॥२४॥ रामानु-मृत्युनिररूपेण नूनं सृष्टः स्वयंभुवा । सुमुखादयो मृत्युपुत्रा इति यावत् ॥ २४ ॥ पुत्रो हुतवहस्येति । अनिलस्य पुत्रः औरसः। एवं तत्र तत्र पितृ यनिर्देशो बीजित्वक्षेत्रित्वाभ्यामिति मन्तव्यम् ॥ २५ ॥ अत्र नप्तृशब्दोऽर्थसामर्थ्यात् पौत्रे वर्तते ॥२६॥ पुत्रा इति । स्पष्टः॥२७॥ दशति । वानर कोटय इत्यत्र वानरेत्यविभक्तिकनिर्देशः। "सुपां सुलुक" इत्यादिना षष्ठया लुक । वानराणामित्यर्थः। शेष जन्मस्थानादि। नोत्सहे न शक्रोमि ॥२८॥ मद्गदस्यैवेति । अन्यः पुत्रः धूम्रारूयः । यम्य केसरिणः पुत्रण हनुमता रक्षसां कदनं कृतम् । केसरी शतक्रतोर्गुरुः बृहस्पतिः तस्य पुत्र इति ॥ २२ ॥२३॥3॥१०॥ मृत्युरेव स्वयम्भुवा समुखादिवानररूपेण सृष्टा, सुमुखादयो मृत्युतुल्या इति भावः ॥ २४-२७ ॥ दशवानरकोटच इत्यत्र धानरेति लुप्तविभक्तिकं पठचन्तं पदम् । आख्यातुं नोत्सहे न शक्रोमि ॥ २८-३० ॥
S
For Private And Personal Use Only