________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
मनसा प्रेक्ष्य आलोच्य तं शार्दूलमुवाचेत्यन्वयः ॥ १५॥ सीतारमै प्रदीयतामित्यस्योत्तरमाह-यदीति । युद्धधरन् तथापि सीतां न प्रदास्यामि । सर्वलोकेभ्यो भयादपि न प्रदास्यामीति योजना ॥१६॥ एवं प्रथमपक्षस्यानुपपत्त्या द्वितीयपक्ष करिष्यमाणः तत्र ज्ञातव्यविशेष पृच्छति-एव । मित्यादि श्लोकत्रयम् । भवता सेना चारिता चारविषयीकृता, सम्यक दृष्टेत्यर्थः । अब सेनायाम् । के शूराः ॥१७॥ये दुरासदाः ते कीदृशाः
मनसा तं तदा प्रेक्ष्य तच्छ्रुत्वा राक्षसाधिपः । शार्दूलं सुमहदाक्यमथोवाच स रावणः ॥ १५॥ यदि मां प्रति युद्धयेरन देवगन्धर्वदानवाः। नैव सीतां प्रदास्यामि सर्वलोकभयादपि ॥ १६॥ एवमुक्त्वा महातेजा रावणः पुनरब्रवीत् । चारिता भवता सेना केत्रशूराः प्लवङ्गमाः ॥१७॥ कीदृशाः किंप्रभाः सौम्य वानरा ये दुरासदाः । कस्य पुत्राश्च पौत्राश्च तत्त्वमाख्याहि राक्षस ॥१८॥ तथाऽत्र प्रतिपत्स्यामि ज्ञात्वा तेषां बलाबलम् । अवश्यं बलसङ्ख्यानं कर्तव्यं युद्धमिच्छताम् ॥ १९॥ तथैवमुक्तः शार्दूलो रावणेनोत्तमश्चरः। इदं वचनमारेभे वक्तुं रावण
सन्निधौ ॥२०॥ अथर्भरजसः पुत्रो युधि राजा सुदुर्जयः । गद्गदस्याथ पुत्रोऽत्र जाम्बवानिति विश्रुतः ॥२३॥ 1 कीदृशाकाराः । किंप्रभाः किंप्रभावाः। कस्य पुत्राः कस्य पौत्राश्च । तत्त्वं तेषां वानराणां भावमाख्याहि ॥ १८॥ १९॥ कथने किं प्रयोजनमित्यवाह
तथेति । तथा एवमाख्याते सति । तेषां बलाबलं ज्ञात्वा अत्र वानरेषु प्रतिपत्स्यामि प्रतिपत्स्ये, कर्तव्यं ज्ञास्यामीत्यर्थः ॥२०॥ अथेत्युत्तरवचना रम्भे। द्वितीयोऽथशब्दः पादपूरणे । राजा सुग्रीवः । पाञ्चालीन्यायेन गद्गदेन पोषितत्वात्तत्पुत्रो जाम्बवान् । तस्य ब्रह्मणो जृम्भारम्भसम्भूतत्वात् ॥२१॥
आयास्यति । "यावत्पुरानिपातयोलर्ट " इति भविष्यदर्थे लट् । एकतरम् अन्यतरत । तदेवाह सीतामिति ॥ १५-१६ ॥ चारितेति । वानराणां सेनेति योजना Hd॥१७॥१९॥ कथने किमित्यत आह-तथेति । तथ एवमाख्याते सति । तेषां बलावलं ज्ञात्वा प्रतिपत्स्यामि प्रतिपत्स्ये, कर्तव्यं ज्ञास्यामीत्यर्थः ॥१९॥२०॥ राजा
सुग्रीवः । मद्दा क्षेत्रद्वारा जाम्बवतः पिता । यद्यपि जाम्बवतः 'जृम्भमाणस्य सहसा मम वक्रादजायत ' इति ब्रहामुखादुत्पत्तिरुक्ता, तथापि जुम्मणसमये । उद्गताया ब्रह्मशक्तेर्गद्गदक्षेत्रमाविश्य तद्रूपेण परिणामाददोषः ॥२१॥
स०-आल्याहि सुनतेति पाठः । अनेन भनृतभाषणे प्रत्यवेयामिति परिक्षानमस्तीति सुध्यते ॥१८॥ गद्दस्य द्वितीयजन्मनि । न वचने किं कल्पकमिति वाच्यम् । देवानामुत्पत्तेनानाविधाया मारतभागवतादी प्रोक्तिरेवेत्यवेहि । अत्रापि " जाम्बवान् जृम्भमाणस्प मम बादजायत " इत्येकत्र निर्धातकस्यैकस्य ब्रह्मजत्वजल्पनं अन्यत्र धूषानुजत्वेन गद्दपुनवजल्पनं च कल्पपिष्यतोऽमुमर्थ मितिजेयम् ॥ २१ ॥
For Private And Personal Use Only