SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir ग्राहितः ग्रहणं प्रापितः॥२६॥ मोचित इति । मोचितः, प्रहारादिति शेषः॥२७॥ वानरैरिति । आर्दताः पीडिताः। विक्रान्तरित्यत्र विक्रममात्रोक्तः लघुविक्रमरित्यत्र जवमा विक्रमस्य विशेष्यते ॥२८ ॥ तत इति । बहिर्नित्यचराः परराष्ट्रेषु वृत्तान्तज्ञानाय सदा सञ्चारशीलाः। समीपवासिनमिति पुंस्त्वमार्षम् ॥२९॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥२९॥ मोचितः सोऽपि रामेण वध्यमानः प्लवङ्गमैः । आनृशंस्येन रामस्य मोचिता राक्षसाः परे ॥२७॥ वानरैरर्दितास्ते तु विक्रान्तैर्लघुविक्रमैः। पुनर्लङ्कामनुप्राप्ताः श्वसन्तो नष्टचेतसः॥ २८॥ ततो दशग्रीवमुपस्थितास्तु ते चारा बहिर्नित्यचरा निशाचराः। गिरेः सुवेलस्य समीपवासिनं न्यवेदयन भीमबलं महाबलाः॥२९॥ इत्याचे श्रीरामा यणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ ततस्तमक्षोभ्यबलं लङ्काधिपतये चराः। सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥१॥ चाराणांरावणः श्रुत्वा प्राप्त रामं महाबलम् । जातोरेगोऽभवत् किंचिच्छार्दूलं वाक्यमब्रवीत् ॥२॥ अयथावच्च ते वर्णो दीनश्चासि निशाचर । नासि कच्चिदमित्राणां क्रुद्धानां वशमागतः॥३॥ इति तेनानुशिष्टस्तु वाचं मन्दमुदीरयत् । तदा राक्षसशार्दूलं शार्दूलो भयविह्वलः ॥४॥न ते चारयितुं शक्या राजन वानरपुङ्गवाः॥५॥ अथशार्दूलादिचारवचनं त्रिशे-तत इति । सुवेले सुवेलसमीपे । सामीप्ये सप्तमी । सुवेलस्य समीप इति पूर्वमुक्तत्वात् ॥ १॥ चाराणां चारेभ्यः ॥२॥ रामानु०-माप्तं राम महावलमिति पाठः ॥ २॥ शत्रुगृहीतत्वेन तेषां स्वरूपं किं न ज्ञातमिति भावः ॥३॥ अनुशिष्टः पृष्टः । उदीरयत् । अडभाव आपः॥४॥ चारयितुं चारविषयीकर्तुम् । न शक्याः चारसञ्चारविषया न भवन्तीत्यर्थः॥५॥ सोऽपि शार्दूलोऽपि । परे शाईलसहायभूतास्ते च मोचिताः ॥ २७ ॥ २८ ॥ बहिनित्यचराः परराणेषु तत्रत्मवृत्तान्तजिज्ञासया सदा सक्षरणशीलाः ॥ २९ ॥ इति श्रीमहेश्वरतीर्थविरचितार्या श्रीरामायणतत्त्वदीपिकाख्यायो युद्धकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥२९॥ ॥१॥चाराणां चारेभ्यः ॥२॥३॥ "उदीरपदिति अडभाव 'आर्षः ॥ ४॥ चारयितुम् चारविषयीकर्तुम् ॥५-२॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy