________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
॥२८॥
10
॥
बा.रा.भ.पविगतसाध्यसान् विगतशत्रभयान् ॥ १७॥ इत्त इति । व्यवसायं कर्तव्यनिश्चयम् । परीक्षय परीक्षच्चम् । शिथिलव्यवसायश्चेदमुंभीषयाम इति भावःटी .पु.की.
अस्य रामस्य मन्त्रिषु ये अभ्यन्तराः अन्तरङ्गभूता इत्यर्थः । तेन रामेण प्रीत्या सङ्गताः, मित्रभूता इत्यर्थः । तानपि परीक्षवम् । तच्छेथिल्ये तान्स .२९ ॥९८ ॥
भेत्स्याम इत्याशयः॥१८॥ कथं स्वपिति किमेकः स्वपिति उत जाग्रद्भिरनेकैरावृतः स्वपिति ? आये सुप्ते युद्धं प्रवर्तयिष्याम इति हृदयम् । कथं जागति।। किं चिन्ताकुलः उतानाकुल इत्यर्थः । आये व्याक्षिप्तं प्रहरिष्यामीत्याकूतम् । किमन्यच करिष्यति किं कश्चित्कालं विलम्ब्य नगरसुपरोत्स्यति
इतो गच्छत रामस्य व्यवसायं परीक्षथ । मन्त्रिष्वभ्यन्तरा येऽस्य प्रीत्या तेन समागताः॥ १८॥ कथं स्वपिति जागर्ति किमन्यच्च करिष्यति। विज्ञाय निपुणं सर्वमागन्तव्यमशेषतः ॥ १९॥ चारेण विदितः शत्रुः पण्डितै र्वसुधाधिपः । युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥२०॥ चारास्तु ते तथेत्युक्त्वा प्रहृष्टा राक्षसेश्वरम् । शार्दूलमग्रतः कृत्वा ततश्चक्रुः प्रदक्षिणम् ॥२१॥ ततस्ते तं महात्मानं चारा राक्षससत्तमम् । कृत्वा प्रदक्षिणं जग्मुर्यत्र रामः सलक्ष्मणः ॥२२॥ ते सुवेलस्य शैलस्य समीपे रामलक्ष्मणौ । प्रच्छन्ना ददृशुर्गत्वा ससुग्रीव विभीषणौ ॥ २३ ॥ प्रेक्षमाणाश्चमूं तां च बभूवुर्भयविक्वाः॥ २४ ॥ ते तु धर्मात्मना दृष्टा राक्षसेन्द्रेण राक्षसाः
॥२५॥ विभीषणेन तत्रस्था निगृहीता यदृच्छया । शार्दूलो ग्राहितस्त्वेकः पापोऽयमिति राक्षसः॥२६॥ उत सद्य इति । आये क्रमेण वञ्चयिष्यामीति तात्पर्यम् । निपुणं प्रच्छन्नमिति यावत् । क्रियाविशेषणमिदम् । सर्वम् उक्तं स्वापादिकम् अशेषतः सर्वप्रकारेण विज्ञायागन्तव्यम् । अशेषतः अझेपैश्चारैरिति वाऽर्थः। अशेषत इत्युत्तरशेषो वा ॥ १९ ॥ उक्तमाशयं विवृणोति-चारेणति । पण्डितैः निपुणेः वसुधाधिपः । चारेण चारद्वारेण । अशेषतो विदितः शत्रुः युद्धे स्वल्पेन यत्नेन समासाद्य निरस्यते ॥२०॥ चाराः शार्दूलमग्रतः क्रत्वा प्रधानीकृत्य । राक्षसेश्वरं रावणम् । प्रदक्षिणं चक्रुः ॥२१॥ कृत्वा प्रदक्षिणमित्यनवादो मध्ये विलम्बाभावद्योतनार्थम् ॥ २२॥ प्रच्छन्ना " विषान्तरधारिणः ॥२३ ॥ भयविक्कवाः भयेन दीनाः ॥२४॥ धर्मात्मना राशसेन्द्रेण, विभीषणेनेत्यर्थः ॥ २५ ॥ निगृहीताः तर्जिता इत्यर्थः। मन्वेषु विचारेषु अभ्यन्तराः परमान्तरङ्गाः मन्त्रिणः ॥ १८-२५ ॥ शार्दूलः प्रधानचारो गृहीतः । एको प्राहितः इत्यत्र हेतुः पापोऽयमिति । अतिदुष्ट इत्यर्थः ॥२६॥
For Private And Personal Use Only