SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir भौवादिको धातुः। धरामि जीवामीति वा ॥ ८॥ मां परुषं वचो वक्तुं युवयोम॒त्योः सकाशात् भयं नास्ति किन ? वक्तम्, उद्यतयोर्युवयोरिति शेष इत्यप्याहुः । परुषोक्तिमात्रे कुतो मृत्युरित्यत्राह-यस्येति । शासतो मे जिदैव शुभाशुभं प्रयच्छति । शासने प्रवृत्तस्य मे जिह्वाचलनमेव मृत्युं श्रेयो। वा प्रयच्छतीत्यर्थः ॥ ९॥ राजदोषः राजकोपः । दहनस्पृष्टवनपादपस्थितिसम्भवादप्यसम्भाविता राजदोषस्पृष्टजनस्थितिरिति भावः । तिष्ठन्ते किन्नु मृत्योर्भयं नास्ति वक्तुं मां परुषं वचः । यस्य मे शासतो जिह्वा प्रयच्छति शुभाशुभम् ॥ ९॥ अप्येव दहनं स्टष्ट्वा वने तिष्ठन्ति पादपाः । राजदोषपरामृष्टास्तिष्ठन्ते नापराधिनः ॥१०॥ हन्यामहं त्विमौ पापो शत्रुपक्ष प्रशंसको। यदि पूर्वोपकारैस्तु न क्रोधो मृदुतां व्रजेत् ॥११॥ अपध्वंसत गच्छध्वं सन्निकर्षादितो मम । नहि वां हन्तुमिच्छामि स्मराम्युपकृतानि वाम् ॥ १२ ॥ हतावेव कृतघ्नौ तौ मयि स्नेहपराङ्मुखौ ॥ १३ ॥ एवमुक्तौ तु सवीडो तावुभौ शुकसारणौ । रावणं जयशब्देन प्रतिनन्द्याभिनिस्मृतौ ॥ १४॥ अब्रवीत्तु दशग्रीवः समीपस्थं महोदरम् । उपस्थापय मे शीघ्रं चारानीतिविशारदान् । महोदरस्तथोक्तस्तु शीघ्रमाज्ञापयञ्चरान् ॥ १५॥ तत श्चाराः संत्वरिताः प्राप्ताः पार्थिवशासनात् । उपस्थिताःप्राञ्जलयो वर्धयित्वा जयाशिषा ॥ १६ ॥ तानबवीत्ततो वाक्यं रावणो राक्षसाधिपः । चारान् प्रत्यायितान शरान् भक्तान विगतसाध्वसान् ॥ १७॥ तिष्ठन्ति ॥ १०॥ स्वमनः प्रत्याह-हन्यामिति ॥ ११॥ अपध्वंसत स्थानात प्रच्यवध्वम् । परस्मैपदं बहुवचनं चार्षम् । गच्छध्वं गच्छत । सन्निकर्षात दृष्टिविषयात् ॥ १२ ॥ इतावित्यर्धम् । कृतघ्रत्वस्नेहपराङ्मुखत्वे एव तयोर्वध इति भावः ॥ १३॥ प्रतिनन्ध प्रशस्य । अभिनिस्सृतौ निर्गती ॥११॥ अब्रवीदिति । चारानपस्थापयेत्यब्रवीदित्यन्वयः ॥ १५॥१६॥ तानिति । प्रत्यय एवं प्रत्यायः तं प्राप्ताः प्रत्यायिताः तान्, विश्वसनीयानित्यर्थः।। राज्यमिति शेषः । दिष्टया जीवामीति वा ॥८॥ किरिवति । वक्तुम, उद्यतयोः युवयोरिति शेषः ॥ ९॥ अपीति । राजदोषपरामृष्टाः राजक्रोधविषयी भूताः । तिष्ठन्ते तिष्ठन्ति ॥ १० ॥ पूर्वोपकारः युद्धादी कृतेः मे क्रोधो मृदुता न व्रजेद्यदि तदा इमो पापी पामिति सम्बन्धः ॥११॥ अपध्वंसत अधिकारात भ्रश्यत । परस्मैपदबहुवचनप्रयोगश्छान्दसः ॥ १२॥ इतावेवेति । कृतघ्नत्वस्नेहपराङ्मुखत्वे एव युवयोर्वध इत्यर्थः ॥१३॥ प्रतिनन्द्यामिनिस्मृतौ । अयमेव तयोर राक्षसत्यप्रापक शापस्यान्त इत्यन्यत्र स्पष्टम ॥ १४-१६ ॥ प्रत्यायिनान् प्रत्ययो विश्वासः प्राप्तप्रत्ययान, विश्वसनीयानित्यर्थः ॥ १७ ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy