________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ.
टी.यु.का.
विप्रियपदोक्तं विशदयति-रिपूणामिति । अभिवर्तताम् अभिवर्तमानानाम् । अप्रस्तवे अनवसरे। स्तवं वक्तुं सदृशं नाम सदृशं किमु ? युद्धारम्भ समयो हि परस्तुत्यनई इति भावः॥६॥ आचार्या इति । यद्यस्मात् राजशास्त्राणां सारं प्रतिपाद्यसारभूतम् अनुजीव्यम् अनुजीविकृत्यम् । न राह्यते न ज्ञायते । अतः वां युवाभ्याम् । गुरवः महान्तः । वृद्धाः ज्ञानवयाशीलसम्पन्नाः । आचार्याः नीतिशास्त्रोपदेष्टारः । वृथा पर्युपासिताः, रिपूणां प्रतिकूलानां युद्धार्थमभिवर्तताम् । उभाभ्यां सदृशं नाम वक्तुमप्रस्तवे स्तवम् ॥ ६॥ आचार्या गुरवो वृद्धा वृथा वां पर्युपासिताः। सारं यदाजशास्त्राणामनुजीव्यं न गृह्यते । गृहीतो वा न विज्ञातो भारो ज्ञानस्य वोह्यते
॥७॥ ईदृशैः सचिवैर्युक्तो मूर्खेर्दिष्टया धराम्यहम् ॥८॥ तदुपासनफलादर्शनानिरर्थकमाराधिता इत्यर्थः । ननु चिरोपासितयुरोरज्ञानं न साम्प्रतम्, तबाह गृहीतो वेति । गृहीतो वाऽर्थः । न विज्ञातः न विशेषेण ज्ञातः, विस्मृत इत्यर्थः । तर्हि कथं ज्ञातृत्ववाद इत्यत्राह भार इति । ज्ञानस्य भारः उह्यते वा । जातमपि ज्ञानं नानुष्ठान पर्यवसायीत्यर्थः । यद्वा ज्ञानस्य भार उह्यते । ज्ञानभारभरणाभिमान एव क्रियते न तु तत्कार्यमित्यर्थः ॥ ७ ॥ आवयोरज्ञत्वे कथमेतावत्पर्यन्त मस्मन्मत्यनुसारेण तव राज्यभरणम् ? तत्राह-ईदृशैरिति । ईदृशैः एवं नीतिशास्त्रलेशानभिज्ञैरित्यर्थः। धरामि, राज्यमिति शेषः। “धृभ धारणे" इति अप्रस्तवे स्तुत्यनहकाले । सदृशं नाम सदृशं किमु ? अभिवर्तताम् अभितो वर्तमानानाम् ॥ ६॥ यद्यस्मात् राजशास्त्राणां सारं सारभूतम् अनुजीव्यम् अनुजीवि कर्म । न गृह्यते न ज्ञायते, अत आचार्यादयो वो युवाभ्याम् वृथा पर्युपासिताः तदुपासनफलादर्शनानिरर्थकमाराधिताः इत्यर्थः । आचार्या उपनयनपूर्वक सामवेदाध्यापकाः । गुरवः पित्रादयः । बुद्धाः ज्ञानवयोवृद्धाः। एतच्छाधारण भारायैव कल्पत इत्याह गृहीत इति । गृहीतो वा अभ्यस्तोऽपि न विज्ञातः
औचित्यापर्यालोचनया सम्यङ्न चिन्तितः। ज्ञानस्य ज्ञानसाधनस्य शास्त्रस्य । भारो वा भार एव । उयत इति भारशब्दावृत्त्या योजनीयम् ॥ ७ ॥ धरामि, । स-रिपूर्णा शत्रूणाम । ननु " रिपोरपि गुणा बायाः " इत्यापुस्तास्तुतियुक्त यतो वक्ति-प्रतिकूलानामिति । विण्याचरणवतामिवर्षः । खतिचा अप्रतिकूलशत्रुआतीयविषयेति भावः । तपाहपद्धार्थमिति । अप्रस्तवे तद्विषयकप्रश्नाभावे । स्तवं गुणकीर्तनम् । वक्तुं सदशं नाम सहशं किल काकः । यद्वा उमाभ्यामेवाप्रस्तवे स्तवं वक्तुं सदशं नाम नान्येषामिति वा । स्तवशब्दार्थीभूतगुणकीर्तनस्य नपुं सकविवक्षया " अजानता महिमानं तवेदं ' उदीचामातः स्थाने यकपूर्वाषा: ''मातुरुसङ्ख्यासंभद्रपूर्वायाः " इत्यादिवञ्च स्तवमित्युक्तिस्सम्भवतीति मन्तव्यमिति केचित् । वस्तुतस्तु " सम्बन्धमनुवतिष्यते " इति माश्यालिकानामतन्त्रत्वाहा ॥ ६ ॥
॥९७
For Private And Personal Use Only