________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
इमामिति । प्रज्वलितग्रहोपमां क्रूरग्रहोपमाम् । यथेति । यथा ते जयो न स्यात् प्रत्युत परैः पराजय एव स्यात् तथा यत्नः क्रियतामिति ध्वन्यते। ॥ ४४ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टाविंशः सर्गः ॥ २८ ॥
इमां महाराज समीक्ष्य वाहिनीमुपस्थितां प्रज्वलितग्रहोपमाम् । ततः प्रयत्नः परमो विधीयतां यथा जयः स्यान्न परैः पराजयः ॥ ४४ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे अष्टाविंशः सर्गः ॥ २८ ॥ शुकेन तु समाख्यातांस्तान् दृष्ट्वा हरियूथपान् । समीपस्थं च रामस्य भ्रातरं स्वं विभीषणम् ॥ १ ॥ लक्ष्मणं च महावीर्यं भुजं रामस्य दक्षिणम् । सर्ववानरराजं च सुग्रीवं भीमविक्रमम् ॥ २ ॥ [ गजं गवाक्षं गवयं मैन्दं द्विविद मेव च । अङ्गदं चैव बलिनं वज्रहस्तात्मजात्मजम् । हनूमन्तं च विक्रान्तं जाम्बवन्तं च दुर्जयम् । सुषेणं कुमुदं नीलं नलं च प्लवगर्षभम् ॥ ] किंचिदाविग्रहृदयो जातक्रोधश्च रावणः । भर्त्सयामास तौ वीरौ कथान्ते शुक सारणौ ॥ ३ ॥ अधोमुखौ तौ प्रणतावब्रवीच्छुकसारणौ । रोषगद्गदया वाचा संरब्धः परुषं वचः ॥ ४ ॥ न तावत् सदृशं नाम सचिवैरुपजीविभिः । विप्रियं नृपतेर्वक्तुं निग्रहप्रग्रहे प्रभोः ॥ ५ ॥
Acharya Shri Kalassagarsuri Gyanmandir
अथ रावणेन चारप्रेषणादि प्रतिपाद्यत एकोनत्रिंशे-शुकेनेत्यादिश्लोकत्रयम् । सर्ववानरराजं चेत्यत्र चकारो हनुमदादिसमुच्चयार्थः । आविग्रहृदयः भीत हृदयः । तथापि जातकोधः परस्तवाकर्णनेन कुपित इत्यर्थः । कथान्ते वचनान्ते ॥ १-३ ॥ रोषगद्गदया कोपस्खलितया । संरब्धः कुपितः ॥४॥ न ताव दिति । तावत् प्रथमतः । निग्रहप्रग्रहे निग्रहानुग्रहयोः । प्रभोः शक्तस्य । नृपतेः विप्रियं वक्तुं न सदृशं नाम । नामेति नीतिशास्त्रप्रसिद्धिः ॥ ५ ॥ प्रज्वलितप्रहोपमा प्रज्वलितमहज्यालोपमाम् ॥४४॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्वदीपिकाख्यायां युद्धकाण्ड व्याख्यायाम् अष्टाविंशः सर्गः ॥२८॥ ॥ १ ॥ २ ॥ कथान्ते वृत्तान्तश्रवणसमाप्तिसमये । भर्त्सयामास स्वकीयभीता कारगोपनार्थोऽयं व्यापारः ॥ ३॥ अधोमुखो, भर्त्सनेनेति शेषः ||४|| प्रम अनुग्रहे ॥ ५॥
For Private And Personal Use Only