________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ग.रा.भ.
टी.यु.का. स.२८
२६॥
पराजयो न भवतीति सदा वाली तां वहति स्मेति प्रसिद्धिः । तद्धारणादेव हि रामस्तदनभिमुख एव वालिनं इतवान्॥३१॥प्रतिपादितः प्रापितः॥३२॥ उक्तानुक्तसकलवानरसयां वक्तं प्रथमतः सङ्ख्यामेव दर्शयति-शतमित्यादिना । शतपर्यन्तसङ्ख्यायाः स्फुटत्वात्तदूर्ध्वसङ्ख्या अत्र सङ्कीर्त्यन्ते ।
एतां च माला तारां च कपिराज्यं च शाश्वतम् । सुग्रीवो वालिनं हत्वा रामेण प्रतिपादितः ॥ ३२ ॥ शतं शतसहस्राणां कोटिमाहुर्मनीषिणः । शतं कोटिसहस्राणां शङ्ख इत्यभिधीयते ॥ ३३ ॥ शतं शसहस्राणां महाशन इनि स्मृतः । महाशङ्क्षसहस्राणां शतं वृन्दमिति स्मृतम् ॥ ३४ ॥ शतं वृन्दसहस्राणां महावृन्दमिति स्मृतम् । महावृन्दसहस्राणां शतं पद्ममिति स्मृतम् ॥ ३५॥ शतं पद्मसहस्राणां महापद्ममिति स्मृतम् । महापद्म सहस्राणां शतं खर्वमिहोच्यते ॥ ३६ ॥ शतं खर्वसहस्राणां महाखर्वमिति स्मृतम् । महाखर्वसहस्राणां समुद्र मभिधीयते ॥ ३७॥ शतं समुद्रसाहस्रमोघ इत्यभिधीयते । शतमोधसहस्राणां महौष इति विश्रुतः ॥ ३८ ॥ एवं कोटिसहस्रेण शङ्खानां च शतेन च । महाशकसहस्रेण तथा वृन्दशतेन च ॥ ३९॥ महावृन्दसहस्रेण तथा पद्म शतेन च । महापद्मसहस्रेण तथा खर्वशतेन च ॥४०॥ समुद्रेण शतेनैव महौधेन तथैव च । एष कोटिमहौधेन समुद्रसदृशेन च ॥ ४१ ॥ विभीषणेन सचिवै राक्षसैः परिवारितः। सुग्रीवो वानरेन्द्रस्त्वां युद्धार्थमभि वर्तते ॥४२॥ महाबलवृतो नित्यं महाबलपराक्रमः॥४३॥ शतसहस्राणां लक्षाणां शतं कोटिरित्याहुः ॥ ३३-३८ ।। एवं कोटिसहस्रणेत्याद्यवान्तरसङ्घयाभेदकीर्तनमवान्तरसेनाप्रतिभेदात् । समुद्रसदृशेन सागरसदृशेन । विभीषणेनेति । सचिवैः राक्षसैरुपलक्षितेन विभीषणेन परिवारितः सुग्रीवः त्वामभि त्वां प्रति युद्धार्थ वर्तते ॥ ३९-४३॥ रामाबु०-एष इति । समुद्रसदृशेन सागरवदपरिच्छेयेनेत्यर्थः ॥ ४ ॥ अथ सर्ववलसकचा दर्शयितुं समयास्वरूपं दर्शयति-शतमिति ॥ ३३-३८ ॥ अथ बलसयामाह-एवं कोटीति ॥ ३९-४३ ॥
For Private And Personal Use Only