________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इत्यादिना । दक्षिणे, रामस्येति शेषः । शुद्धजाम्बूनदप्रभः स्वर्णवर्णः । ताम्राक्षः त्वद्विषयकोपेनेति भावः ॥ २२ ॥ सवैति । शास्त्रशब्दो। नीतिशास्त्रव्यतिरिक्तपरः॥ २३ ॥ प्राणो बहिश्चर इत्यनेन प्राणसंरक्षकत्वमुच्यते ॥ २४ ॥ २५ ॥ यस्त्विति । पक्षं पार्श्वम् । रक्षोगणेति । चतुर्णा लामेव रक्षसां गणतुल्यविक्रमत्वात्तथोक्तम् । राजा, त्वदाज्यस्येति शेषः । अत्र हीति गायत्र्याः षोडशाक्षरम् ॥ २६ ॥ राजत्वं कुत इत्यत्राह-॥
एषोऽस्य लक्ष्मणो नाम भ्राता प्राणसमः प्रियः। नये युद्धे च कुशलः सर्वशास्त्रविशारदः ॥२३॥ अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान बली। रामस्य दक्षिणो बाहुनित्यं प्राणो बहिश्चरः ॥ २४ ॥ न ह्येष राघवस्यार्थे जीवितं परिरक्षति । एषैवाशंसते युद्धे निहन्तुं सर्वराक्षसान ॥ २५॥ यस्तु सव्यमसौ पक्षं रामस्याश्रित्य तिष्ठति । रक्षो गणपरिक्षिप्तो राजा ह्येष विभीषणः ॥२६॥ श्रीमता राजराजेन लङ्कायामभिषेचितः । त्वामेव प्रतिसंरब्धो युद्धायैषोऽभिवर्तते ॥२७॥ यं तु पश्यसि तिष्ठन्तंमध्ये गिरिमिवाचलम् । सर्वशाखामृगेन्द्राणां भर्तारमपराजितम् ॥२८॥ तेजसा यशसा बुद्ध्या ज्ञानेनाभिजनेन च । यः कपीनतिबभ्राज हिमवानिव पर्वतान् ॥ २९॥ किष्किन्धां यः समध्यास्ते गुहां सगहनदुमाम् । दुर्गा पर्वतदुर्गस्था प्रधानैः सह यूथपैः ॥३०॥ यस्यैषा काञ्चनी
माला शोभते शतपुष्करा । कान्ता देवमनुष्याणां यस्यां लक्ष्मी प्रतिष्ठिता ॥ ३१ ॥ श्रीमतेति । श्रीमता अवाप्तसमस्तकामत्वेन लङ्काराज्यानभिलाषिणेत्यर्थः । राजराजेन विभीषणादिराजत्वानिर्वाह स्वस्य राजराजत्वं न निर्वहेदिति मन्वानेन । लङ्कायां निमित्ते । लङ्कायां राजेति वाऽन्वयः ॥२७॥ अथ सुग्रीवं वर्णयति-यं वित्यादि । मध्ये रामविभीषणयोर्मध्ये । अचलं निश्चलम् | V॥२८॥ बुद्ध्या ऊहापोहरूपज्ञानेन । ज्ञानेन शास्त्रजन्यज्ञानेन । अभिजनेन कुलेन । अतिबभ्राज अतिशय्य बभ्राज ॥२९॥ गहनं वनम् । दुर्गा प्राका
रादिना दुर्गमाम् । पर्वतदुर्गस्थ पर्वतरूपदुर्गे स्थिताम् ॥३०॥ शतपुष्करा शतपद्मा। कान्ता काम्यमाना। लक्ष्मीः वीरलक्ष्मीः। तद्धारणे कदाचिदपि हीति गाययाः षोडशाक्षरंरक्षोगणपरिक्षिप्त इत्यस्य श्लोकस्य एकादशाक्षरेण 'हि' इत्यनेन संग्रहाति।राक्षोगणपरिक्षितः गणशब्देन चत्वार एवोच्यन्ते । परिक्षित व्याप्तः ॥२६॥ राजराजेन श्रीरामेण ॥२७॥ सुग्रीवं वर्णयति-यं त्विति ॥२८॥ अतिबभ्राज अतिक्रम्यातिशयेन बभ्राजेत्यर्थः ॥२९॥३०॥ पुष्करं पद्मम् ॥ ३१॥३२॥
For Private And Personal Use Only