________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kalassagarsur Gyanmandir
९५॥
योग उपायः तन । यदा आप्तवाक्यश्रवणेन । मम मया । रूपं वपुः । भापितुं न शक्यम्, कामरूपदर्शनादिति भावः ॥ १६॥ १७॥ अथ रामं टी.यु.का वर्णयति-यश्चैष इत्यादिना । अनन्तरः अन्तरम् अवकाशः तद्रहितः स्कन्धारूढत्वेन पूर्वोक्तहनुमतोऽत्यन्तसत्रिहित इत्यर्थः । शूरः हनुमदा स. रूढत्वेन प्रकटितशौर्यः । श्यामः कनकमयशिखरारूढकालाम्बुदकमनीयविग्रहः । पद्मनिभेक्षणः दिव्यविग्रहमहातटाकस्थविकसितकमललोभनीय
यश्चैषोऽनन्तरः शूरः श्यामः पद्मनिभेक्षणः । इक्ष्वाकूणामतिरथो लोके विख्यातपौरुषः ॥ १८॥ यस्मिन्न चलते धर्मो यो धर्म नातिवर्तते । यो ब्राह्ममस्त्रं वेदांश्च वेद वेदविदां वरः ॥ १९॥ यो भिन्द्याद्गगनं बाणैः पर्वतानपि दारयेत् । यस्य मृत्योरिव क्रोधः शक्रस्येव पराक्रमः ॥२०॥ यस्य भार्या जनस्थानात् सीता चापहृता त्वया । स एष रामस्त्वां योद्धं राजन् समभिवर्तते ॥२१॥ यस्यैष दक्षिणे पार्श्वे शुद्धजाम्बूनदप्रभः । विशालवक्षा
स्ताम्राक्षो नीलकुञ्चितमूर्धजः ॥ २२ ॥ विलोचनः । अनरण्यादिवदयं न मन्तव्यः । किंत्विक्ष्वाकूणां मध्ये अतिरथः अतिशयितरयः, अपराजितरथ इत्यर्थः । अत्र न वयमेव प्रमाणम्, लोके विख्यातपौरुषः खरवधादिना ख्यातं भवरिवालिवधेन विशेषेण ख्यातं पौरुषं यस्य तथोक्तः॥१८॥ न केव पौरुषम्, धर्मोप्यस्यैव स्वमित्याहयस्मिन्निति। यस्मिन् धर्मो न चलति जाबालिप्रभृतिभिराकुलितोऽप्यप्रकम्पितः। यो धर्म नातिवर्तते भरतसीतादिभिः कृतेऽपि प्रतिबन्धे पितृवचन मुनिप्रतिज्ञाधमै नातिवर्तते । खरयुद्धेऽपसर्पणं बाणपातावकाशलाभार्थम् । छद्मना वालिवधस्त्वन्यथानुपपत्त्या अवश्यमाश्रितविषयप्रतिज्ञाया निर्वोढव्यतया च । न केवलं पौरुषधर्मों, अस्वबलं चास्यवेत्याह-य इति । ब्राह्ममत्रं ब्रह्मास्त्रमन्त्रं वेदांश्च वेद जानाति । ब्रह्मास्त्रमन्त्रस्य वेदान्तर्गतत्वे ऽपि प्राधान्यात् पृथयुक्तिः । वेदविदा वेदार्थविदां वरः उपदेतृभ्यो वसिष्ठादिभ्योऽप्युत्कृष्टः। ॥ १९ ॥ उक्तं पौरुषमेव प्रपञ्चयति-यो भिन्द्यादित्यादि। गगनं गगनस्थविमानादि । आदिशन्देन पातालादिकमुच्यते ॥२०॥ संप्रति कोपोद्भवे मूलमाह-यस्य भायेति ॥ २१॥ अथ लक्ष्मणं वर्णयति-यस्यैष ।।९५ ॥ रामं वर्णयति-यस्यैष इति । यस्य दर्शितस्य हनुमत्तः। अनन्तरः समीपवर्ती ॥१८॥१९॥ गगनं बाणैर्भिन्द्यान, सर्वदुष्करमपि तस्य सुकरमिति तात्पर्यम्॥२०-३५॥
For Private And Personal Use Only