________________
Sh Maha
Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
अन्वेषणम् । रावणपक्षे दर्शनम् ॥९॥ ज्येष्ठ इति । अत्र एप इत्यध्याहार्यम् । केसरिणः पुत्रः तस्य क्षेत्रजः पुत्रः ॥ १०॥ बलरूपसमान्वितः प्रशस्त बलसमन्वितः। प्रशंसायां रूपए प्रत्ययः। यथा सततगः सततग इव । सततगः वायुः॥ ११॥उद्यन्तमित्यादि । बालः बाल्यावस्थः। किलेत्यैति । पिपासितः स्तन्यापेक्षा, क्षुधित इति यावत् । त्रियोजनसहस्रं त्रियोजनसहस्रपरिमाणम् । "द्विगोनित्यम्" इति प्रमाणप्रत्ययस्य लुक । हनुमत्पितुः ।
ज्येष्ठः केसरिणः पुत्रो वातात्मज इति श्रुतः। हनुमानिति विख्यातोलचितो येन सागरः॥१०॥ कामरूपी हरिश्रेष्ठो बलरूपसमन्वितः। अनिवार्यगतिश्चैव यथा सततगः प्रभुः॥ ११॥ उद्यन्तं भास्करं दृष्ट्वा बालः किल पिपासितः । त्रियोजनसहस्रं तु अध्वानमवतीर्य हि॥१२॥ आदित्यमाहरिष्यामिन मे शुत् प्रतियास्यति । इति सञ्चिन्त्य मनसा पुरैष बलदर्पितः ॥ १३ ॥ अनाधृष्यतमं देवमपि देवर्षिदानवैः। अनासाचैव पतितो भास्करोदयने गिरौ ॥ १४ ॥ पतितस्य कपेरस्य हनुरेका शिलातले। किंचिद्भिन्ना दृढहनोईनुमानेष तेन वै॥१५॥ सत्यमागमयोगेन ममैष विदितो
हरिः । नास्य शक्यं बलं रूपं प्रभावो वाऽपि भाषितुम् ॥ १६ ॥ एष आशंसते लङ्कामेको मर्दितुमोजसा ॥ १७ ॥ केसरिणः कनकाचलवासित्वात्तस्य चात्युन्नतत्वादादित्यस्य तच्छिखरस्य च मध्यमादा त्रिसहस्रयोजनपरिमित इत्युक्तम् । अत एव अवतीर्येत्युक्तम्, नतूत्पत्येति । यद्वा आदित्यस्य भूमेरुपार लक्षयोजनान्तरत्वात् त्रियोजनसहसमित्येतदनेकसहस्रोपलक्षणम् ॥१२॥ आहरिष्यामि भक्षयिष्यामि । इति संचिन्त्य मनसा पुरैष बलदर्पित इत्यनन्तरं त्रियोजनसहस्रमित्य योज्यम् ॥ १३॥ देवं सूर्यम् । भास्कर उदयतेऽस्मिन्निति भास्करोदयनः तस्मिन् । गिरौ । हनुः तालुप्रदेशः । अनासाद्येत्यत्र तत्तेजसेत्युपस्कार्यम् । "तेजसा तस्य निर्वृतः" इति किष्किन्धाकाण्डोक्तेः । यद्यप्युत्तरकाण्डे इन्द्रवज्रण पतनमुक्तम् तथापि तदपि हेत्वन्तरमिति ज्ञेयम् ॥ १४॥ १५ ॥ कथामियं कथा त्वया विदितेत्यवाह-सत्यमिति । आगमः आप्तवाक्यम्, तदेव । सततमः वायुः ॥ ११ ॥ पिपासितः स्तन्यपानापेक्षी, क्षुधित इति यावत् । त्रियोजनसहस्रमादित्यस्य भूमेरुपरि लक्षयोजनान्तरत्वात्रियोजनसहस्रमित्येतदनेक योजनसहस्रोपलक्षणम् ॥ १२ ॥ प्रतियास्पति, भूलोकवतिफलेरिति शेषः ॥ १३ ॥ अनासाद्य, भास्करमिति शेषः । भास्करोदयने इति बहुव्रीहिः ॥१४॥१५॥ सत्यमिति । आगमयोगेन आगमः आतोपदेशः स एव योग उपायः, आप्तवाक्यश्रवणेनेत्यर्थः ॥ १६ ॥१७॥
For Private And Personal Use Only