________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
भोमभीमाः भीमप्रकाराः प्रकारः सादृश्यम्, भीमसदृशाः ईषद्धीमा इत्यर्थः । “प्रकारे गुणवचनस्य " इति द्विर्भावः । तादृशगमनस्वराः ते वानराः । ते तव लङ्कां समीक्ष्य मर्दयन्तीव तस्थुः मर्दयन्त इव तिष्ठन्ति । आर्षो लिङ्गव्यत्ययः ॥ ४२ ॥ उपतिष्ठति उपतिष्ठते । एषैवेति सन्धिरार्षः । पौरुषे वृत्तपिङ्गलरक्ताक्षा भीमभीमगतिस्वराः । मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते ॥ ४२ ॥ एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान् । जयार्थी नित्यमादित्यमुपतिष्ठति बुद्धिमान् ॥ ४३ ॥ नाम्ना पृथिव्यां विख्यातो राजन् शत वलीति यः । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ ४४ ॥ विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः । रामप्रियार्थ प्राणानां दयां न कुरुते हरिः ॥ ४५ ॥ गजो गवाक्षो गवयो नलो नीलश्व वानरः । एकैक एव यूथानां कोटीभिर्दशभिर्वृतः ॥ ४६ ॥ तथाऽन्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः । न शक्यन्ते बहुत्वा सङ्ख्या लघु विक्रमाः ॥ ४७ ॥ सर्वे महाराज महाप्रभावाः सर्वे महाशैलनिकाशकायाः । सर्वे समर्थाः पृथिवीं क्षणेन कर्तुं प्रवि ध्वस्तविकीर्णशैलाम् ॥४८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्धकाण्डे सप्तविंशः सर्गः ॥ २७ ॥ सारणस्य वचः श्रुत्वा रावणं राक्षसाविपम् । बलमादिश्य तत्सर्वं शुको वाक्यमथाब्रवीत् ॥ १ ॥
पराक्रमे । प्राणानां प्राणेषु ॥ ४३-४७ ॥ सर्व इति । प्रविध्वस्तविकीर्णशैला प्रविध्वस्ताः पूर्णिताः विकीर्णा विक्षिप्ताः शैलाः यस्याः सा तां तथा | ॥ ४८ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तविंशः सर्गः ॥ २७ ॥ एवं सारणेनोक्तं श्रुत्वा शुकस्तेन कात्स्म्यैनानुक्तेः स्वयं तत् सर्वं दर्शयत्यष्टाविंशे सर्गे- सारणस्येति । शुकः सारणस्य वचः श्रुत्वा तेन कात्स्न्यैना नुक्तेः स्वयं तत्सर्वं बलम् आदिश्य अङ्गुल्या निर्दिश्य । रावणम् । अथ कात्स्म्र्त्स्न्येन अब्रवीत् । " मङ्गलानन्तरारम्भप्रश्नकात्स्यैष्वथो अथ " इत्यमरः । ते वानराः। ते तब लङ्कां समीक्ष्य मर्दयन्तीव मर्दयन्त इव तस्थुरिति सम्बन्धः । आर्षो लिङ्गव्यत्ययः ॥ ४२-४८ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायण तत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां सप्तविंशः सर्गः ॥ २७ ॥ सारणस्येति । आदिश्य निर्दिश्य ॥ १ ॥
For Private And Personal Use Only