________________
Shri Mahavir Jain Aradhana Kendra
www.kubatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.मू.
टी.यु.का.
स. २७
सर्वकामफलद्रुमाः । भ्रमरेः आचरिताः व्याप्ताः भवन्ति, अनेन वृक्षाणां सर्वापेक्षितप्रदत्वं सदा पुष्पितत्वं चोक्तम् । य पर्वतं सूर्यः तुल्यवर्णाभं तुल्य प्रकारकान्तिकं यथा तथा अनु समीपे पति सञ्चरति । दृश्यते हि सूर्यस्तत्सन्निधाने काञ्चनवर्णः ॥ ३४ ॥ ३५ ॥ यस्मिन्पर्वतसत्तमे सर्वकामफलाः सर्वैः काम्यमानफलाः । अनेन स्वादुफलत्वमुक्तम् । सदा फलसमन्विताः सर्वकालं फलयुक्ता इत्यर्थः । काञ्चनपर्वते मेरौ ॥ ३६॥ ३७ ।। अथ शतवलि
यस्य भासा सदा भान्ति तद्वर्णा मृग क्षेणः। यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः ॥ ३५ ॥ सर्वकाम फला वृक्षाः सदा फलसमन्विताः। मधूनि च महाहाणि यस्मिन् पर्वतसत्तमे ॥३६॥ तत्रैष रमते राजन् रम्ये काञ्चनपर्वते । मुख्यो वानरमुख्यानां केसरी नाम यूथपः॥ ३७॥ षष्टिगिरिसहस्राणां रम्याः काञ्चनपर्वताः । तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम् ॥ ३८॥ तत्रैते कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः । निवसन्त्युत्तम गिरौ तीक्ष्णदंष्ट्रा नखायुधाः। ३९॥ सिंहा इव चतुर्दष्ट्रा व्याघ्रा इव दुरासदाः । सर्वे वैश्वानरसमा ज्वलिताशी
विषोपमाः ॥ ४० ॥ सुदीर्घाञ्चितलादणूला मत्तमातङ्गसन्निभाः । महापर्वतसङ्काशा महाजीमूतनिस्वनाः ॥४१॥ वानरसेनासाधनपूर्वकं वर्णयति-पष्टिरित्यारभ्य हरिरित्यन्तेन । गिरिसहस्राणां पष्टिरस्ति । ते रम्याः काञ्चनपर्वता भवन्ति । गिरिवरः मेरुः । अस्ति। हस्तगिरेः पूर्वतश्चापरो मेरुः ॥ ३८॥ ३९ ॥ वैश्वानरसमाः वैश्वानरः अग्निः तद्वदुग्रा इत्यर्थः । ज्वलिताशीविषाः कुपितसर्पाः आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः । “ आशीरुरगदंष्ट्रायां प्रियवाक्याभिलाषयोः" इत्यमरः । पृषोदरादित्वात् सलोपः । तद्वत्कोपना इत्यर्थः ॥४०॥ अञ्चित लायूलाः उदञ्चितलाशूलाः। मत्तेत्यादिना महाकायत्वमुक्तम् । पर्वतसङ्काशा इत्यनेन दार्चमुक्तम् ॥११॥ केसर्याख्यवानरवर्णनम् । यत्र यस्मिन् काश्चनपर्वते। सर्वकामफल दुमः सर्वेः काम्यन्त इति सर्वकामानि फलानि येषां ते तथोक्ताः ते च ते दुमाश्च सर्वकामफलद्रुमा यं काञ्चनपर्वतम् । यस्य कामनपर्वतस्य । यस्मिन् काश्चनपर्वते । अस्ताद्रिसमीपवर्तिनि सावणिनिवासमेरो ॥ ३४-३७॥ तमेव विशिनष्टि-पष्टिरिति । गिरि सहस्राणी पष्टिरस्ति ते कामनपर्वताः तेषां मध्ये गिरिवरो मेरुरस्तीति सम्बन्धः ॥ २८॥ मेरुस्थवानरान वर्णयति-तत्रैत इत्यादिना ॥ ३९-४१॥
For Private And Personal Use Only