SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir पर्वतमाश्रित्य रमत इति योजना । हरिवाहिनीमुख्यत्वेऽपि भिन्नजातीयत्वभ्रमव्युदासार्थं वानरश्रेष्ठ इत्युक्तम् ॥ २७ ॥ २८ ॥ रामानु०-"कर्म ॥ प्रवचनीययुक्ते द्वितीया" इति हेमवतीमिति द्वितीया ॥ २७ ॥ वरिस्य भावो वीर्यम्, उत्साह इत्यर्थः । विक्रमः परान् प्रत्यभिभवः । बलशालिनां वानराणा | मित्यर्थसिद्धम् । शतसहस्राणां सहस्रम् सहस्रलक्षमित्यर्थः । नेता नायकः ॥ २९ ॥ प्रमाथिनं वर्णयति स एष इति । दुर्धरः दुर्धर्षः । प्रमाथी नाम रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम् । एनं शतसहस्राणां सहस्रमनुवर्तते ॥ २८ ॥ वीर्यविक्रमदृतानां नर्दतां बलशालिनाम । स एष नेता चैतेषां वानराणां महात्मनाम् ॥ २९ ॥ स एष दुर्धरो राजन् प्रमाथी नाम यूथपः । वातेनेवोद्धतं मेघं यमेनमनुपश्यसि ॥ ३० ॥ अनीकमपि संरब्धं वानराणां तरस्विनाम् । उद्भूतमरुणा भासं पवनेन समन्ततः । विवर्तमानं बहुधा यत्रैतद्बहुलं रजः ॥ ३१ ॥ एतेऽसितमुखा घोरा गोलांगूला महाबलाः । शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम् ॥ ३२ ॥ गोलांगूलं महावेगं गवाक्षं नाम यूथपम् । परिवार्याभिवर्तन्ते लङ्कां मर्दितुमोजसा ॥ ३३ ॥ भ्रमराचरिता यत्र सर्वकामफलद्रुमाः । यं सूर्यस्तुल्यवर्णाभमनु पर्येति पर्वतम् ॥ ३४ ॥ प्रमाथिनामकः । वातेनोद्धतं मेघमिव यमेनमनुपश्यसि एष प्रमाथीति सम्बन्धः ॥ ३० ॥ यत्र अनीके। समन्ततः पवनेनोद्धृतम् अरुणाभासम् | अरुणकान्ति बहुलम् एतद्रजः बहुधा विवर्तमानं भवति, संरब्धं तत् तरस्विनां वानराणामनीकमपि पश्यसि । तदप्यस्य प्रमाथिन इत्यर्थः ॥ ३१ ॥ गवाक्षमाह लोकद्वयेन - एत इति । असितमुखाः गोलालाः सेतुबन्धनं दृष्ट्वा उत्साहेन शतं शतसहस्राणि च सन्तः गवाक्षं नाम स्वयूथपतिं परिवार्य लङ्काम ओजसा स्वतेजसा मर्दितुमभिवर्तन्ते । अत्र यूथपत्यपेक्षया यूथानां बलोत्साहाधिक्यं व्यज्यते ॥ ३२ ॥ ३३ ॥ अथ चतुर्भिः केसरिणं वर्णयति-भ्रमरेति । यत्र पर्वते । सर्वकामफलाः सर्वैः काम्यन्त इति सर्वकामाः सर्वाभीष्टार्थाः तान् फलन्तीति सर्वकामफलाः, ते च ते दुमाश्व यत्रानीकेषु पवनेन उद्धृतं बहुलं रजो दृश्यते तदनीकं वातेनोद्धतं मेघमिव यमेनमनुपश्यसि स एष प्रमाथी नाम यूथप इत्यन्वयः ॥ ३० ॥ ३१ ॥ एत इत्यादि लोकद्वयमेकं वाक्यम् । शतसहस्राणि गोलाङ्गलाः सेतुबन्धनं दृष्ट्वा गोलाङ्गलं गवाक्षं नाम यूथपं परिवार्य लङ्कां मर्दितुमभिवर्तन्त इति सम्बन्धः । शतं शत सहस्राणि शतलक्षमित्यर्थः । सेतुबन्धनं नलसमीपे तत्सहायतया स्थित्वा सेतुबन्धनकर्तारम् ॥ ३२ ॥ ३३ ॥ भ्रमराचरिता इत्यारभ्य केसरी नाम पृथप इत्यन्तं १९३ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy