SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir ॥९२ ।। बा.रा.भू. ७ किमर्थमुत्पादित इत्यत्राह - तदेत्यर्धम् । तदा प्रसिद्धे ॥ २१ ॥ ऋथनं वर्णयति साद्वैस्त्रिभिः - यस्येत्यादिना । यस्य गिरेः वैश्रवणः कुबेरो राजा । यो गिरिः जम्बू जम्बूवृक्षम् उपनिषेवते, जम्बूयुक्त इत्यर्थः । यः ते भ्रातुः कुबेरस्य विहारसुखदः । तत्र पर्वते युद्धेष्वकत्थनः कथनो नामेष यूथपो वसतीति संबन्धः ॥ २२-२४ ॥ यो गङ्गामित्यादि साईश्वोकसप्तकं प्रमाथिविषयम् । हस्तिनां वानराणां च अन्योन्यं पूर्ववैरमनुस्मरन् यः गङ्गामनु तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम् ॥ २१ ॥ यस्य वैश्रवणो राजा जम्बूमुपनिषेवते । यो राजा पर्वतेन्द्राण बहु किन्नरसेविनाम् ॥ २२ ॥ विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप । तत्रैष वसति श्रीमान् बलवान् वानरर्षभः ||२३|| युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः । वृतः कोटिसहस्रेण हरीणां समुपस्थितः । एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम् ॥ २४ ॥ यो गङ्गामनु पर्येति त्रासयन् हस्तियूथपान् । हस्तिनां वानराणां च पूर्ववैरमनुस्मरन् ॥ २५ ॥ एष यूथपतिर्नेता गच्छन् गिरिगुहाशयः । गजान् योधयते वन्यान् गिरींश्चैव महीरुहान् ॥ २६ ॥ हरीणां वाहिनीमुख्य नदीं हैमवतीमनु । उशीरबीजमाश्रित्य पर्वतं मन्दरोपमम् ॥ २७ ॥ गङ्गासमीपे।" कर्मप्रवचनीययुक्ते द्वितीया " इति द्वितीया । हस्तियूथपान् त्रासयन् पर्येति परितश्चरति । अत्रेयं पौराणिकी कथा - पुरा किल शम्ब सादनो नामासुरो गजरूपेण मुनीन् बाधमानस्तैर्मुनिभिश्वोदितेन केसरिणा हनुमत्पित्रा हतः । तत्सन्तुष्टैर्मुनिभिर्महापराक्रमो हनुमान् पुत्रस्ते भवि उष्यतीति केसरिणे वरो दत्तः । ततः प्रभृति हस्तिनां वानराणां च परस्परं वैरमभूदिति । गच्छन्नेव गमनकाल एव रिपूणां नाशयिता । गिरिगुहायां शेते वर्तत इति गिरिगुहाशयः । गजानिति । गजैर्वृक्षान् वृक्षैर्गजांश्च हन्तीत्यर्थः ॥ २५ ॥ २६ ॥ हैमवतीमनु गङ्गासमीपे स्थितम् उशीरबीजाख्यं वानरवर्णनम् । कृष्णवर्त्मनः अग्नेः त्रिदिवौकसां साह्यार्यमुत्पन्न इत्यन्वयः ॥ २० ॥ २१ ॥ यस्येति । ग्रस्य गिरेः वैश्रवणः कुबेरो राजा । यो गिरिः जम्बूमुपनिषेवते, जम्बूवृक्षयुक्त इत्यर्थः ॥ २२ ॥ यो गिरिः ते भ्रातुः कुबेरस्य विहारसुखदः । तत्र पर्वते एष कथनो नाम वानरः वसतीति सम्बन्धः ||२३|| २४|| यो गङ्गामित्यारभ्य यत्रेतद्बहुलं रजः इत्यन्तं प्रमाथिवानरवर्णनम् । हस्तिनां वानराणां च पूर्वचैरमनुस्मरन्निति । पुरा किल सागरतीरे हत्याकारः शम्बसादनो नाम राक्षसः स मुनीनवापत नैर्मुनिमिवोदितो हनुमपिता केसरी हस्तिरूपं तमसुरं हतवान् । तल आरभ्य करिणां वानराणां च विरोधस्समभूदिति पौराणिकी कथा ॥ २५ ॥ २६ ॥ नदीं हैमवतीमनु शीतलजला गङ्गां प्राप्य स्थितमुशीरबीजाख्यं पर्वतमाश्रित्य रमत इति सम्बन्धः ।। २७-२९ ।। For Private And Personal Use Only टी. यु.कां. झ० २७ ॥ ९१ ॥
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy