________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| द्वाभ्याम् - आरुह्येत्यादि । पर्वताप्राणीत्यर्थात्सिद्धम् । मुञ्चन्ति च्यावयन्ति । नोद्विजन्ति न बिभ्यति । राक्षसानां पिशाचानां च सदृशा इत्यन्वयः ॥ १३ ॥ १४ ॥ द्वाभ्यां दम्भं वर्णयति-यं त्विति । अभिसंरब्धं कुपितम् । प्लवमानमिव सदा लवमानमिव स्थितं प्रेक्षन्ते, आश्वर्येणेति शेषः । बलेन पर्यु पास्ते बलेन प्रीणयतीत्यर्थः || १५ || १६ | | त्रिभिः सन्नादनं वर्णयति यः स्थितमिति । यो गच्छन् योजने योजनदूरे स्थितं शैलं पार्श्वेन (सेवते) गच्छति,
राक्षसानां च सदृशाः पिशाचानां च लोमशाः । एतस्य सैन्या बहवो विचरन्त्यग्नितेजसः ॥ १४ ॥ यं त्वेनमभिसंरब्धं प्लवमानमिवस्थितम् । प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम् ॥ १५ ॥ एष राजन सहस्राक्षं पर्युपास्ते हरी श्वरः । बलेन बलसम्पन्नो दम्भो नामैष यूथपः ॥ १६ ॥ यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते । ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम् ॥ १७ ॥ यस्मान्न परमं रूपं चतुष्पादेषु विद्यते । श्रुतः सन्नादनो नाम वानराण पितामहः ॥ १८ ॥ येन युद्धं पुरा दत्तं रणे शक्रस्य धीमता । पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः ॥ १९ ॥ यस्य विक्रममाणस्य शक्रस्येव पराक्रमः । एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मनः ॥ २० ॥
Acharya Shri Kalassagarsuri Gyanmandir
अस्य गमनकाले एकपदप्रक्षेपदशायाम् एकयोजनपरिमितः पर्वतः पार्श्वस्थो भवति, योजनायतशरीर इत्यर्थः । कायेनोर्ध्वं गतः सन् योजनं प्राप्नोति, योजनोन्नतकाय इत्यर्थः । अत एव चतुष्पादेषु यस्मात् परमं परं रूपं शरीरं न विद्यते । शकस्य रणे शक्रस्यासुरैः सह युद्धे । येनासुरेभ्यो युद्धं दत्तं तदा पराजय श्वासुरेभ्यो न प्राप्तः सोऽयं सन्नादन इति श्रुतो नाम ॥१७- १९ ॥ कस्यायं पुत्र इत्यत्राह-यस्येति । विक्रममाणस्य पराक्रमं कुर्वतः । यस्य पराक्रमः शक्रस्येव तत्पराक्रमसदृशपराक्रम इत्यर्थः ॥ २० ॥ रामानु० -यस्य विक्रममाणस्येत्यारभ्य स्वेनानीकेन मर्दितुमित्यन्तं कथनारूपवानरविषयम् ॥ २० ॥
लोमशाः अधिकरोमवन्तः ॥ १४ ॥ वमानमिव स्थितं प्रवमानत्वेन वर्तमानम् । स्थिता यूथपयूथपा इति च पाठः ॥ १५ ॥ १६ ॥ यः सनादनाख्यो गच्छन् योजने स्थितं शैलं पार्श्वेन सेवते स्पृशति । अनेन योजनपरिमितमस्य स्थौल्यमित्युक्तं भवति । तथैव गतः गमनवेलायां कायेन ऊर्ध्वमुपरि योजनं प्रामोति स्पृशति, अनेन योजनोन्नतवानित्युक्तं भवति ॥ १७ ॥ १८ ॥ पुरा युद्धकाले ॥ १९ ॥ यस्य विक्रममाणस्य इत्यारभ्य स्वेनानीकेन मर्दितुमित्यन्तं क्रथनाख्य
For Private And Personal Use Only