________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
पा.रा.भ. १९०॥
रामानु०-एतस्येति । चत्वारिंशत्तथैव चेति पाठः । एतदुत्तरशेषः ॥ ३७ ॥ अथ पनसं वर्णयति-यस्तु मेष इत्यादिना ॥३८-४०॥ रामानु०-भेरीणामिति । घोषटी .यु.का शाखामृगेन्द्राणामिति पाठः ॥ ३९ ॥ एनं पनसम् । येषां यूथपानां यूथानि च भागशः स्वस्यांशासङ्करण एनं पर्युपासत इति संबन्धः ॥४१॥ विनतं.स. वर्णयति--यस्त्वित्यादि । प्रवल्गन्तीम् उत्साहेन प्वमानाम् । समुद्रस्य पारे स्थिताम् । अत एव द्वितीयः सागर इव, स्थितामिति शेषः । विनतविशेषणं
एतस्य बलिनः सर्वे विहारा नाम यूथपाः। राजन शतसहस्राणि चत्वारिंशत्तथैव च ॥ ३७॥ यस्तु मेघ इवाकाशं महानावृत्य तिष्ठति । मध्ये वानरवीराणां सुराणामिव वासवः ॥३८॥ मेरीणामिव सन्नादो यस्यैष श्रूयते महान् । घोषः शाखामृगेन्द्राणां सङ्घाममभिकांक्षताम् ॥ ३९॥ एष पर्वतमध्यास्ते पारियात्रमनुत्तमम् । युद्धे दुष्प्रसहो नित्यं पनसो नाम यूथपः॥४०॥ एनं शतसहस्राणां शताधै पर्युपासते । यूथया यूथपश्रेष्ठं येषां यूथानि भागशः ॥४१॥ यस्तु भीमा प्रवल्गन्ती चमू तिष्ठति शोभयन् । स्थितां तीरे समुद्रस्य द्वितीय इव सागरः ॥ ४२ ॥ एष दर्दरसङ्काशो विनतो नाम यूथपः । पिबंश्चरति पर्णासां नदीनामुत्तमा नदीम् ॥४३॥ षष्टिः शतसहस्राणि बलमस्य प्लवङ्गमाः॥४४॥ त्वामाह्वयति युद्धायक्रोधनो नाम यूथपः । विक्रान्ता बलवन्तश्च यथायूथानि भागशः॥४५॥
यस्तु गैरिकवर्णाभं वपुः पुष्यति वानरः। अवमत्य सदा सर्वान् वानरान् बलदर्पिताच ॥ ४६॥ वा ॥४२॥ दर्दरो नाम गङ्गासमीपस्थः पर्वतः । पर्णासां पर्णासाख्यां नदीम् ॥ १३ ॥ विनतसेनासङ्घयामाह-पष्टिरिति । षष्टिः शतसहस्राणि प्लवङ्गमाः अस्य विनतस्य बलं सेनेत्यर्थः ॥ १४॥ एकेन क्रोधनमाइ-स्वामिति । उत्तरार्धे अस्येत्यध्याहार्यम् । यथायूथानि यथायूथम् । अमभावश्छान्दसः। भागशः भागत्वेन स्थिताः वानराः विकान्ता बलवन्तश्चेति योजना ॥४५॥ शेषेण गवयं वर्णयति-यस्त्वित्यादिना । गैरिकं रक्तवर्णधावविशेषः . यस्तु मेघ इत्यारभ्य येषां यूथानि भागशः इत्यन्तं पनसाख्यवानरवर्णनम् ॥ ३८ ॥ शाखामृगेन्द्राणां मध्ये यस्य घोषो भेरीणां सत्राद इव श्रूयत इति सम्बन्धः
३९॥ ४० ॥ पनमिति । येषां यूथपाना पूथानि भागशः प्रत्येकं वर्तन्ते तेऽर्धशतसहस्राणि शतार्थ सइम्माणि यूथपा एनं पनमं पर्युपासत इति सम्बन्धः ॥४१॥ यस्तु भीमामित्यादिसायश्लोक एक वाक्यम् । पिबंश्चरतीत्यारभ्य यथायूथानि भागशः इत्यन्तं क्रोधनाख्यवानरवर्णनम् । वपुः पुष्यति पोषयति, युद्धहर्षादमिश
For Private And Personal Use Only