SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsur Gyanmandir चतुर्भिः कुमुदं वर्णयति--यः पुरेत्यादि । पुरेत्यनेनाद्य सुग्रीवसमीप एव वसतीति गम्यते । पति परितः सञ्चरति । नाम्रा सङ्कोचनो नाम यः प्रसिद्ध तं पर्वतमित्यन्वयः । तत्र गोमतीतीरे ॥२७॥ परिकर्षति आनयति ॥ २८ ॥ घोरकर्मणो यस्य लाशूलमाश्रिताः वालाः रोमाणि । दैर्घ्यस्यावधिमाह यः पुरा गोमतीतीरे रम्यं पर्येति पर्वतम् । नाम्ना सङ्कोचनो नाम नानानगयुतो गिरिः । तत्र राज्यं प्रशास्त्येष कुमुदो नाम यूथपः ॥२७॥ योऽसौ शतसहस्राणां सहस्रं परिकर्षति ॥२८॥ यस्य वाला बहुव्यामा दीघा लाङ्गेलमाश्रिताः। ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः ॥ २९ ॥ अदीनो रोषणश्चण्डः सङ्ग्राममभि कांक्षति । एषोऽप्याशंसते लङ्का स्वेनानीकेन मर्दितुम् ॥३०॥ यस्त्वेष सिंहसङ्काशः कपिलो दीर्घलोचनः । निभृतः प्रेक्षते लङ्का दिधक्षन्निव चक्षुषा ॥ ३३॥ विन्ध्यं कृष्णगिरि सह्यं पर्वतं च सुदर्शनम् । राजन सततमध्यास्ते रम्भो नामैष यूथपः॥३२॥ शतं शतसहस्राणां त्रिंशच हरिपुङ्गवाः। यमेते वानराः शराश्चण्डाश्चण्डपराक्रमाः। परिवार्या नुगच्छन्ति लङ्कां मर्दितुमोजसा ॥ ३३ ॥ यस्तु कर्णो विवृणुते जृम्भते च पुनः पुनः । न च संविजते मृत्योर्न च युद्धाद्विधावति ॥ ३४ ॥ प्रकम्पते च रोषेण तिर्यक् च पुनरीक्षते । पश्यन् लागूलमपि च श्वेलते च महाबलः ॥ ३५॥ महाजवो वीतभयो रम्यं सालेयपर्वतम् । राजन् सततमध्यास्ते शरभो नाम यूथपः ॥ ३६॥ बहुव्यामा इति । " व्यामो बाह्वोः सकरयोस्ततयोस्तिर्यगन्तरम् " इत्यमरः । अदीन इत्यत्र य इत्युपस्कार्यम् ॥ २९ ॥३० ॥ अथ सादॆत्रिभी | रम्भं वर्णयति--यस्त्वेष इत्यादि । ३१-३३ ॥ अथ शरभं वर्णयति-यस्तु कर्णावित्यादि । संविजते बिभेति ।। ३४--३७॥ यः पुरेत्यादिना साधेन कुमुदवर्णनम् ॥ २७ ॥ योऽसावित्यारभ्य स्वेनानीकेनेत्यन्तं चण्डाख्यवर्णनम् । यस्य वालाः रोमाणि बहुम्यामाः दीर्घबाहुद्वयप्रमाणाः । सिताश्वेताः अश्वेता नीलाच सिताश्वेताः पीताश्च ॥ २८ ॥ २९ ॥ चण्डः चण्डाख्यः ॥ ३०॥ यस्त्वेष इत्यारभ्य लट्टा मर्दितुमोजसा इत्यन्तं रम्भाख्यवर्णनम् । निभृतः एकाग्रः ॥ ३१-३३ ॥ यस्तु कर्णावित्यारभ्य चत्वारिंशत्तथैव चेत्यन्तं शरभारूपवर्णनम् । न संविजते न विभेति ॥३४-३७॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy