________________
Shri Mahavir Jain Arachana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू. अतो न पुनरुक्तिः॥२०॥ अनु वालीति । एतस्योत्तरार्ध वीरस्तिष्ठति सङ्घाम इति। वालिसुतस्य अनु पश्चात् । सेतुहेतुः सेतुकर्ता । सङ्ग्रामे सङ्ग्राम टी.यु.का.
निमित्तम् ॥ २१ ॥ नलपरिवारानाह-ये वित्यादिना मर्दितुमित्यन्तेन । श्लोकत्रयमेकान्वयम् । विष्टभ्य उन्नम्य । क्षेलयन्ति सिंहनादं कुर्वन्ति । नदन्ति गर्जन्ति । उत्थाय, आसनादिति शेषः। विजृम्भन्ते कोपेन गावविनामं कुर्वन्ति । य एवंविधा वानराः ये च चन्दनवासिनः चन्दनवनवासिनः
अनु वालिसुतस्यापि बलेन महता वृतः। वीरस्तिष्ठति सङ्ग्रामे सेतुहेतुरयं नलः ॥२१॥ येतु विष्टभ्य गात्राणि श्वेल यन्ति नदन्ति च । उत्थाय च विजृम्भन्ते क्रोधेन हरिपुङ्गवाः ॥२२॥ एते दुष्प्रसहा घोराश्चण्डाश्चण्डपराक्रमाः। अष्टौ शतसहस्राणि दशकोटिशतानि च ॥ २३ ॥ य एनमनुगच्छन्ति वीराश्चन्दनवासिनः । एषैवाशंसते लङ्का स्वेनानीकेन मर्दितुम् ॥२४॥ श्वेतो रजतसङ्काशश्चपलो भीमविक्रमः । बुद्धिमान वानरो वीरस्त्रिषु लोकेषु विश्रुतः
॥ २५ ॥ तूर्णं सुग्रीवमागम्य पुनर्गच्छति सत्वरः । विभजन वानरी सेनामनीकानि प्रहर्षयन् ॥ २६॥ एते एनं नलमनुगच्छन्तीति सम्बन्धः । चन्दनवानरा इति पाठे मध्यमपदलोपिसमासः । चन्दनवासिनो वानरा इति । एवेति सन्धिरापः । भाशंसते प्रार्थयते ॥२२-२४ ॥ अथ द्वाभ्यां श्वेताख्यं वानरं वर्णयति-श्वेत इत्यादि । अन्वर्थनामेत्याह रजतेति । चपलः युद्धचपलः ॥ २५ ॥ रामानु-चेतः श्वेतारयः ॥ २५ ॥ अनीकानि पुनर्गच्छतीत्यन्वयः । विभजन् निबिड सेना भित्त्वा गच्छन्नित्यर्थः । अत्र चपल इत्यनेन अद्यैव या लङ्क ध्वंसयामीति निवेदनार्थ गत्वा तेन सान्त्वितः पुनर्गच्छतीत्यवगम्यते ॥ २६ ॥
अनु वालिसुतस्य वालिसुतस्यानु अनन्तरम् ।। २१॥ ये तु विष्टभ्येत्यादि अनीकानि प्रहर्षयनित्यन्तं श्वेताण्यवानरवर्णनम् । ये गात्राणि विष्टभ्य क्ष्वेलयन्ति वय पनं श्वेताख्यमनुगच्छन्ति एते दुष्प्रसहाः चन्दनवासिनः चन्दनवनवासिन इति सम्बन्धः ॥ २२-२५ ॥ यः अनीकानि प्रहर्षयन् वानरी सेना विभजन सुग्रीवमागम्य पुनर्गच्छति एष श्वेत एव वानरः स्वेनानीकेन लङ्का मर्दितुम् आशंसते प्रार्थयतीति सम्बन्धः ॥२६॥ स०-चन्दनवासिनः तन्नामकगिरिविशेषवासिनः । अथवा चन्दनभूयिष्ठत्वान्मलयः तत्र वासिनो वा । रपव एष एव । सन्धिरार्थः । एषा या प्रसिद्धा त्वदावासभूता तो लवां मर्दिवमिति वा ।। २४ ॥
॥८९॥
For Private And Personal Use Only