SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir त्रिभिनलं वर्णयति - एष इत्यादि । य एष इत्यन्वयः । तिष्ठ तिष्ठति ॥ ११-१३ ॥ अथाङ्गदं वर्णयति बाहू इत्यादिना स्वेनानीकेन दुर्जयः इत्यन्तेन । बाहू प्रगृह्य उत्क्षिप्य । अभि उद्दिश्य मुखं यस्यासावभिमुखः । विजृम्भते जृम्भणं करोति ॥ १४ ॥ पद्मकि अल्कसन्निभः पद्मकेसरवत् एष योऽभिमुखो लङ्कां नर्देस्तिष्ठति वानरः । यूथपानां सहस्राणां शतेन परिवारितः ॥ ११॥ यस्य घोषेण महता प्राकारा सतोरणा । लङ्का प्रवेपते सर्वा सशैलवनकानना ॥ १२ ॥ सर्वशाखामृगेन्द्रस्य सुग्रीवस्य महात्मनः । बलाग्रे तिष्ठते वीरो नीलो नामैष यूथपः ॥ १३ ॥ बाहू प्रगृह्य यः पद्भ्यां महीं गच्छति वीर्यवान् । लङ्कामभिमुखः क्रोधादभीक्ष्णं च विजृम्भते ॥ १४ ॥ गिरिशृङ्गप्रतीकाशः पद्मकिञ्जल्कसन्निभः ॥ १५ ॥ स्फोटयत्यभिसंरब्धो लागलं च पुनः पुनः । यस्य लागूलशब्देन स्वनन्ति प्र दिशो दश ॥ १६ ॥ एष वानरराजेन सुग्रीवेणाभिषेचितः । यौवराज्येऽङ्गदो नाम त्वामाह्वयति संयुगे ॥ १७ ॥ वालिनः सदृशः पुत्रः सुग्रीवस्य सदा प्रियः । राघवार्थे पराक्रान्तः शार्थे वरुणो यथा ॥ १८ ॥ एतस्य सा मतिः सर्वा यद् दृष्टा जनकात्मजा । हनूमता वेगवता राघवस्य हितैषिणा ॥ १९ ॥ बहूनि वानरेन्द्राणामेष यूथानि वीर्यवान् । परिगृह्याभियाति त्वां स्वेनानीकेन दुर्जयः ॥ २० ॥ पीतवर्ण इत्यर्थः ॥ १२ ॥ स्फोटयति भूमौ ताडयति । अभिसंरब्धः कुपितः । प्रस्वनन्तीत्यन्वयः ॥ १६ ॥ अभिषेचितः अभिषिक्तः । आह्वयति आह्वयते । स्पर्धाविषयेऽप्यात्मनेपदाभाव आर्षः || १७ || पराक्रान्तः पराक्रमितुमुद्यतः ॥ १८ ॥ हनूमता सीता दृष्टेति यत् सा मतिः एतस्याङ्गदस्य एतद्बुद्धिमूलं हनुमतः सीतादर्शनमिति भावः । अङ्गदपुरस्कारेण हनुमतः समागमात् ॥ १९ ॥ बहूनीति । स्वेनानीकेनेति दुर्जयत्वकारणोक्तिः शृणोति वाक्यमिति शेषः ॥ ९--१२ ॥ तिष्ठ तिष्ठति ॥ १३ ॥ बाहू प्रगृह्येत्यादि स्वेनानीकेन दुर्जयः इत्येतदन्तम् अङ्गदवर्णनम् । बाहू प्रगृह्य उत्क्षिप्य अभिषेचितः अभिषिक्तः । पराक्रान्तः पराक्रमितुमुद्यतः ॥१४- १८॥ एतस्य अङ्गदस्य । हनुमता जनकात्मजा दृष्टेति यत् सा सर्वा मतिरेतस्येति, अङ्गदोपदेशादेव हनुमता सीता दृष्टेति भावः ॥ १९ ॥ २० ॥ For Private And Personal Use Only
SR No.020795
Book TitleValmiki Ramayanam Part 05
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages772
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy