________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
..रा.भू.
टी.यु.का,
स०२०
अथ रावणाय सारणेन वानरयूथपतीनां वीर्यादिकथनपूर्वकं तत्प्रदर्शनं षड्विंशे-तदिति। अक्लीबम् अकातरम् । प्रत्यभाषत अनिन्ददित्यर्थः॥१॥ यदीति । अभियुञ्जीरन युद्धयेरन् । सर्वलोकभयात् सर्वलोकेभ्यो भयात् ॥२॥ त्वमित्यादिसार्द्ध श्लोकः । सपत्नः शत्रुः ॥३॥ इत्युक्त्वेत्यादिसाध
तद्वचः पथ्यमक्लीवं सारणेनाभिभाषितम् । निशम्य रावणो राजा प्रत्यभाषत सारणम् ॥३॥ यदि मामभियुञ्जीरन् देवगन्धर्वदानवाः । नैव सी प्रदास्यामि सर्वलोकभयादपि ॥ २ ॥ त्वं तु सौम्य परित्रस्तो हरिभिनिर्जितो भृशम् । प्रतिप्रदानमद्यैव सीतायाः साधु मन्यसे । को हि नाम सपत्नो मां समरे जेतुमर्हति ॥३॥ इत्युक्त्वा परुषं वाक्यं रावणो राक्षसाधिपः ॥४॥ आस्रोह ततः श्रीमान प्रासादं हिमपाण्डरम् । बहुतालसमुत्सेधं रावणोऽथ दिदृक्षया ॥५॥ ताभ्यां चराभ्यां सहितो रावणः क्रोधमूञ्छितः। पश्यमानःसमुद्रं च पर्वतांश्च वनानि च । ददर्श पृथिवीदेशं सुसम्पूर्ण प्लवङ्गमैः॥ ६॥ तदपारमसङ्ख्येयं वानराणां महद्बलम् । आलोक्य रावणो राजा परिपप्रच्छ सारणम् ॥७॥ एषां वानरमुख्यानां के शूराः के महाबलाः । के पूर्वमभिवर्तन्ते महोत्साहाः समन्ततः ॥८॥ केषां शृणोति सुग्रीवः के वा यूथपयूथपाः । सारणाचक्ष्व तत्त्वेन के प्रधानाः प्लवङ्गमाः॥९॥ सारणो राक्षसेन्द्रस्य वचनं परिच्छतः । आचचक्षेऽथ मुख्यज्ञो मुख्यास्तांस्तु वनौकसः ॥१०॥ शोकः। ततः तस्मात्पूर्वस्थानात् । बहुतालसमुत्सेधम् अनेकतालवृक्षतुल्योन्नत्यम् । यद्वा वितताङ्गुष्टमध्यमामितस्तालः । तदाह सजनः-"प्रादेश तालगोकर्णवितस्त्यश्च यथाकमम् । भवन्ति वितताङ्गुष्टप्रदेशिन्यादिभिः सह।" इति । अत्र द्वितीयो रावणशब्दो रावयतीति व्युत्पत्त्या कियानिमित्तकः। दिदृक्षया वानरबलदिदृक्षया ॥४॥५॥ चराभ्यां चाराभ्याम् । क्रोधमूञ्छितः क्रोधेन व्याप्तः। पृथिवीदेशं त्रिकूटाधःप्रदेशम् ॥ ६ ॥ अपारम् उत्तरावधिरहितम् ।।७॥ येषामिति । इयं निर्धारणे षष्ठी ॥८॥ केषामिति । वचनमिति शेषः । प्रधानाः सेनापतयः ॥९॥ वचनं, निशम्यति शेषः॥१०॥ १-३॥ इत्युक्त्वेत्यादिश्लोकद्वयमेकं वाक्यम्। बहुतालसमुत्सेधं बहुतालौन्नत्यसमानोन्नत्यम्। दिक्षया वानरबलदर्शनेच्छया॥४॥५॥ पश्यमानः पश्यन॥६-८॥ केषां ॥
For Private And Personal Use Only