________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
उद्धृत्य । संक्रामयितुम् अन्यत्र शेप्तुम् । सर्वे एतच्चतुष्टयभिन्नाः ॥ ३० ॥ प्रहरणादिकं यादृशं तदवलोकने राम एको वषिष्यतीति मन्यावहे ॥ इत्यर्थः ॥३१॥ नन्वसहायशूरोऽपि रामः सेनाहननादनुत्साहः स्यात्, तत् कियतामित्यत्राह-रामलक्ष्मणेति । सुग्रीवेण च अङ्गदादिना च सहिता सा अपरिच्छिन्ना । इरिवाहिनी चपलकपिसेना। रामलक्ष्मणगुप्ता रामेण रामस्य दक्षिणो बाहुः' इति रामदाक्षिणबाहुभूतेन लक्ष्मणेन च गुप्ता सती । यादृशं तस्य रामस्य रूपं प्रहरणानि चावधिष्यति पुरीलङ्कामेकस्तिष्ठन्तु ते त्रयः ॥ ३१ ॥रामलक्ष्मणगुप्ता सा सुग्रीवेण च वाहिनी । बभूव दुर्धर्षतरा सेन्ट्रैरपि सुरासुरैः ॥३२॥ [व्यक्तः सेतुस्तथा बद्धो दशयोजनविस्तृतः। शतयोजनमायामस्तीर्णा सेना च सागरम् । निविष्टो दक्षिणे तीरे रामः स च नदीपतेः । तीर्णस्य तरमाणस्य बलस्यान्तो न विद्यते ॥ ] प्रष्टरूपा ध्वजिनी वनौकसां महात्मनां सम्प्रति योद्धुमिच्छताम् । अलं विरोधेन शमो विधीयतां प्रदीयतां दाशरथाय मैथिली ॥ ३३ ॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमद्युद्ध
काण्डे पञ्चविंशः सगः ॥२९॥ सुग्रीवस्य रक्ष्यकोटावेवान्वयः, न तु रक्षककोटौ । तन्मन्त्रिणा हनुमतैद "जयत्यतिबलो रामो लक्ष्मणश्च महाबलः। राजा जयति सुग्रीवो राघवेणाभि पालितः॥" इत्युक्तेः। दुधर्षतरा बभूव तरसा मनसापि धर्षयितुमशक्येत्यवगम्यते । न केवलं मनुष्यादिभिः किन्तु सुरैरपि । न केवलं सुरैरेव । किन्तु सुरासुरैः विरोधं विहाय कृतसौहार्दरपि। न केवलमनायकैस्तैः, किन्तु सेन्ट्रैरपि । स्वस्वातन्त्र्यं विहाय नायकाज्ञानुवर्तिभिरित्यर्थः॥ ३२॥ महात्मनां दृढमनस्कानाम् । सम्प्रति सद्य एव । योद्धमिच्छताम् । प्रष्टरूपा हर्षद्योतकाकारयुक्ता, भवतीति शेपः । अतस्तद्विरोधेनालम् । शम:| कोनिवृत्तिः। विधीयतां क्रियताम्, मैथिली प्रदीयतां च ॥३३॥ रामानु०-प्रष्टरूपा अत्यन्तं प्रहृष्टा । " प्रशंसायां रूपप्" ॥ ३३ ॥ इति श्रीगोविन्दराज विरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चविंशः सर्गः ॥२५॥ यादशं रामस्य रूपं प्रपाणानि च याहशानि तद्विमर्श स एव वषिष्यतीति मन्याबहे इत्यर्थः ॥ ३१॥ ३२ ॥ प्रष्टरूपा अत्यन्तं प्रहृष्टा ॥३३॥ इति श्रीमहेश्वर | तीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥२५॥
For Private And Personal Use Only