________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
रामानु०-तादिति । तद्रलार्णवमित्येकं पदम् । ददृशाते ददशतुः ॥ १२ ॥ ताविति । अथ विभीषणः ददर्श आचचक्षे चेत्यन्वयः ॥ १३॥ लाया इति पञ्चमी परपुरं जयतीति परपुरंजयः। “संज्ञायां भृतृवृजिधारिसहितपिदमः" इति खच ॥ ११-१६ ॥ दशरथात्मजः महापुरुषप्रसूतत्वेन सहजकारुण्यः
तौ ददर्श महातेजाः प्रच्छन्नौ च विभीषणः । आचचक्षेऽथ रामाय गृहीत्वा शुकसारणौ ॥ १३॥ तस्येमौ राक्षसेन्द्रस्य मन्त्रिणौ शुकसारणौ । लङ्कायाः समनुप्राप्तौ चारौ परपुरञ्जय ॥१४॥ तौ दृष्ट्वा व्यथितौ रामं निराशौ जीविते तदा । कृताअलिपुटौ भीतौ वचनं चेदमूचतुः ॥१५॥ आवामिहागतौ सौम्य रावणप्रहितावुभौ। परिज्ञातुं बलं कृत्स्नं तवेदं रघुनन्दन ॥ १६॥ तयोस्तद्वचनं श्रुत्वा रामो दशरथात्मजः। अब्रवीत् प्रहसन वाक्यं सर्व भूतहिते रतः॥१७॥ यदि दृष्टं बलं कृत्स्नं वयं वा सुपरीक्षिताः। यथोक्तं वा कृतं कार्य छन्दतःप्रतिगम्यताम् ॥१८॥ अथ किंचिददृष्टं वा भूयस्तद्रष्टुमर्हथः । विभीषणो वा कात्स्न्येन भूयः सन्दर्शयिष्यति॥१९॥ न चेदं ग्रहणं प्राप्य भेतव्यं जीवितं प्रति । न्यस्तशस्त्रौ गृहीतौ वा न दूतौ वधमईथः॥२०॥ पृच्छमानौ विमुञ्चैतौ चारौरात्रिंचरावुभौ । शत्रुपक्षस्य सततं विभीषण विकर्षणौ ॥ २१ ॥प्रविश्य नगरी लङ्का भवद्भया धनदानुजः । वक्तव्यो रक्षसां राजा
यथोक्तं वचनं मम ॥२२॥ यदलं च समाश्रित्य सीतां मे हृतवानसि । तद्दर्शय यथाकामं ससैन्यः सहबान्धवः॥२३॥ प्रहसन रावणबुद्धिमान्द्यस्मरणात् प्रहासः । सर्वभूतहिते रतः रिपूणामपि वत्सलः ॥ १७॥ यथोक्तं रावणेन यथोक्तम् । छन्दतः यथेच्छातः ॥१८॥ अथेति पक्षान्तरे। भूयः अतिशयेन । दूतो, युवामिति शेषः॥१९॥२०॥ विभीषणं प्रत्याह-पृच्छमानाविति । सततं पृच्छमानत्वदशायामपि शत्रु पक्षस्य विकर्षणौ बाधकाविति यावत् ॥२३॥ पुनभूतो प्रत्याह-प्रविश्येति ॥२२॥ यदिति । यथाकामं यथेच्छम् । शरणं वा आगच्छेति भावः ॥२३॥ वाक्यम् । दहशाते दहशतुः ॥ १२-२०॥ विभीषणं प्रत्याह-पृच्छमानाविति । हे विभीषण ! शत्रुपक्षस्य विकर्षणो विविधं कर्षणं सामादिना इतस्ततः कर्षण। ययोस्तो । सततं पृच्छमानौ अभयं पृच्छन्ती पतो विमुवेत्यर्थः ॥ २१॥ पुनश्चारौ प्रत्याह-प्रविश्येत्यादिना ॥ २३-२४ ॥ स-नवं वा युसमीक्षिताः इति पाठः । सुसमीक्षिताः भतिसम्बगवलोकिताः । वयं वा सुसमाहिता इति पाठे-सुसमाहिताः स्वस्थचित्ताः, प्रतिमटभीतिरहिता इति यावत् । इष्टमिति विपरिणतं सत् दृष्टा:
१११
For Private And Personal Use Only