________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
न वासवेनेति । सहस्रचक्षुष्वं गर्वहेतुत्वेनोक्तम् । दिग्विजये वरुणपुत्रैरेव युद्धकरणात् स्वयमित्युक्तम् । वासवादिभिः शराग्निना यथा धर्षयितुं न शक्यो। disस्मीति योजना ॥ १७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विंशः सर्गः ॥२४॥ अथ शुकसारणप्रेषणं पञ्चविंशे-सबल इत्यादि । दशरथात्मज इति मनुष्यत्वोक्तिः । श्रीमानिति मदातिशयोक्तिः । शुकः पूर्वस्मादन्यः, सारण,
न वासवेनापि सहस्रचक्षुषा यथाऽस्मि शक्यो वरुणेन वा स्वयम् । यमेन वा धर्षयितुं शरागिना महाहवे वैश्रवणेन वा पुनः ॥४७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमयुद्धकाण्डे चतुर्विंशः सर्गः ॥२४॥
सबले सागरं तीर्णे रामे दशरथात्मजे । अमात्यौ रावणः श्रीमानबवीच्छुकसारणौ ॥ १ ॥ समग्रं सागरं तीर्ण दुस्तरं वानरं बलम् । अभूतपूर्व रामेण सागरे सेतुबन्धनम् ॥ २॥
सागरे सेतुबन्धं तु न श्रद्दध्यां कथंचन । अवश्यं चापि सङ्घयेयं तन्मया वानरं बलम् ॥ ३॥ साहित्यात् ॥१॥ समयं विशालम्। दुस्तरं तरितुमशक्यम् । सागरं कर्म । वानरं वानरसम्बन्धि बलं कर्तृ । तीर्णम् अतरत् । कतरिक्तः । सेतुबन्धनम्, रामेण कृतमिति शेषः ॥२॥ सेतुबन्धं रामेण कृतम् । कथंचन आप्तपुरुषोदितत्वेऽपि । अपि च तथापि । सङ्ख्येयं ज्ञातव्यम् ॥३॥ ज्याशब्दतुमुलो ज्याशब्द एव तुमुला शब्दो यस्यास्ताम् । आर्तभीतमहास्वनाम् आतभीतशब्दो तदारवे उपचर्येते। आर्ताना रव एव महास्वनो यस्यास्ताम् । नाराचतलसन्नाद नाराचतलशब्दो तदारवे उपचते । नाराचतलरव एवं सत्रादो यस्थास्ताम् । मम चापमयीं वीणां वादपिण्यामीत्यन्वयः। तुमुलमहास्वरसनाद शब्देवीणाया मन्द्रमध्यमतारा उच्यन्ते तेऽत्र सूचिताः ॥ ४५-४७ ॥ इति श्रीमहेश्वरनीविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो युद्ध चतुर्विशः सर्गः ॥२४॥ सवल इति । पूर्वप्रेषितशुकोक्तवृत्तान्तज्ञापनपूर्वकं प्रेषणादमात्यत्वेन विशेषणाचात्र शुकोऽन्य इत्यवगम्यते ॥ १॥ वानरं बलं दुस्तरं सागरं तीर्णमिति, रामेण । स०-चारायाचीनादयमन्योऽमा यत्वेनोक्तः, अथवाऽयं स एव । परिचितसैन्यकत्वात् । अमान्यस्यात्यासत्वेन प्रथमपतिपत्त्यय प्रेषणस्यौचित्यात् । अत एव पक्षीभूप प्रतिपक्षिसेनाप्रवेशोऽपि सम्भवति। न च चारः इत्युक्त्याऽयमन्य इति वाच्यम् ; चतुर्दशलोके-" राक्षसेन्द्रस्य मन्त्रिणौ । लङ्कायास्समनुप्रासौ चारौ" इत्युक्तेमन्त्रिणोऽपि चारतासम्भवात् । छत्रिन्यायेन वा अमात्यत्वोक्तिरिति मक्तु चार रवायम् । "अवश्य चापि मलयेयम्" इत्युत्तरत्र सेनासमयारूपादिविशेषविवित्सानुज्ञानात्सामान्यतस्तज्ज्ञानिना सहान्यप्रेषणस्य म्याण्यत्वात् ॥१॥
DL
For Private And Personal Use Only