________________
Shri Mahavir Jain Aradhana Kendra
www.kobalrm.org
Acharya Shri Kalassagarsur Gyanmandir
वा.रा.भू.
टी.यु.को. म.२४
८५॥
स्वमनोरथं दर्शयति-कदेत्यादिना॥३९॥ तूणीयैः चिरात् समराभावेन केवलतूणीरस्थैः। गणशः सशः। उल्काभिः निर्गतज्वाला(ल)काष्ठैः । ताभिः कुचरमभिद्रावयन्तीति प्रसिद्धिः॥४०॥ तचेति । तत् बलं 'स च हन्ता विराधस्य' इत्यादिना भवदुक्तबलम् । आदास्ये तिरस्करोमीत्यर्थः॥४१-४३॥ रामानु०-सागरस्य जगदाप्लवनोयतस्य ॥ ४२ ॥ न जानातीत्यर्धम् । पुरा न जानाति इतः परं ज्ञास्यतीत्यर्थः॥४४॥ अथ रूपकव्याजेन युद्धस्यात्मनो
कदा नामाभिधावन्ति राघवं मामकाः शराः । वसन्ते पुष्पितं मत्ता भ्रमरा इव पादपम् ॥ ३९ ॥ कदा तूणीशयैर्दीप्तैर्गणशः कार्मुकच्युतैः । शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥४०॥ तच्चास्य बलमादास्ये बलेन महता वृतः। ज्योतिषामिव सर्वेषां प्रमामुद्यन् दिवाकरः ॥ ४ ॥सागरस्येव मे वेगो मारुतस्येव मे गतिः। न हि दाशरथिर्वेद तेन मा योद्भुमिच्छति ॥ ४२॥ न मे तूणीशयान् बाणान् सविषानिव पन्नगान् । रामः पश्यति सङ्ग्रामे तेन मां योद्धुमिच्छति ॥४३॥न जानाति पुरा वीर्य मम युद्धे स राघवः ॥४४॥ मम चापमयीं वीणां शरकोणैः प्रवादिताम् । ज्याशब्दतुमुलां घोरामार्तभीतमहास्वताम् ॥ ४५ ॥ नाराचतलसन्नादां तां ममाहितवाहि
नीम् । अवगाह्य महारङ्ग वादयिष्याम्यहं रणे ॥ ४६॥ विनोदनकरत्वमाह-ममेत्यादिना । ममाहितवाहिनीमेव महारङ्गं विपुलनृत्तशालाम् अवगाह्य प्रविश्य । शरैरव कोणैः वीणावादनदण्डैः । प्रवादितां | शब्दिताम् । ज्याशब्द एव तुमुलः तुमुलस्वनो यस्यास्ताम् । आर्तभीतमहास्वनाम् आर्तभीतशब्देन तत्स्वनो लक्ष्यते । एवं नाराचतलशब्देनापि तत्स्वनः। आर्तभीतानां स्वन एव महास्वनो यस्यास्ताम् । नाराचतलस्वन एव सन्नादो यस्यास्ताम् । पोराम् अन्यैर्वादायितुमशक्याम् । मम चापमयीं| वीणामिति व्यस्तरूपकम् । रणे रणस्थजने, शृण्वतीति शेषः। वीणाया मन्द्राध्यतारभेदेन स्वरत्रयसम्भवादत्रापि स्वरत्रयमुक्तम् ॥ १५ ॥१६॥ भयात् सर्वलोकनिमित्तभयात् ॥ ३८ ॥ अभिधावन्ति धाविष्यन्ति ॥ ३९ ॥ ४० ॥ अस्य रामस्य बलमादास्ये तिरस्करिष्यामि ॥ ४१-४३॥ न जाना तीत्यर्ध भित्रं वाक्यम् ॥ ४४ ॥ मम चापीत्यादिश्लोकदयमेकं वाक्यम् । ममाहितवाहिनीं नाम महारङ्गमवगाह्य प्रविश्य शरकोणेः शरवादनदण्देः प्रवादिताम् ।
For Private And Personal Use Only