________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
लोप्तुं विनाशयितुम् ॥ ३० ॥ अत्र वानरेषु । विषये प्तमी । तोक्ष्णाः क्रूराः । उक्तेरेवावकाशो नास्ति । प्रत्युक्तेः का कथेति भावः । रावणप्रसादार्थ मध्ये राक्षसाधिपेति सम्बुद्धिः । त्वत्तोऽप्येते ऽतिशयिति इति ज्ञापनार्थं वा ॥ ३१॥ वक्ष्यमाणयोः सीताप्रदानयुद्धयोर्मध्ये सीताप्रदानस्य साधिष्ठत्वं दर्शयितुं क्रुद्धैस्तैरमुत्प्लुत्य दृष्टमात्रैः प्लवङ्गमेः । गृहीतोऽस्म्यपि चारब्धो हन्तुं लोप्तुं च मुष्टिभिः ॥ ३० ॥ नैव सम्भाषितुं शक्याः सम्प्रश्नोऽत्र न लभ्यते । प्रकृत्या कोपनास्तीक्ष्णा वानरा राक्षसाधिप ॥ ३१ ॥ स च हन्ता विराधस्य कब न्धस्य खरस्य च । सुग्रीवसहितो रामः सीतायाः पदमागतः ॥ ३२ ॥ स कृत्वा सागरे सेतुं तीर्त्वा च लवणो दधिम् । एष रक्षांसि निर्धूय धन्वी तिष्ठति राघवः ॥ ३३ ॥ ऋक्षवानर सङ्घानामनीकानि सहस्रशः । गिरिमेघ निकाशानां छादयन्ति वसुन्धराम् ॥ ३४ ॥ राक्षसानां बलौघस्य वानरेन्द्रबलस्य च । नैतयोर्विद्यते सन्धिर्देव दानवयोरिव ॥ ३५ ॥ पुरा प्राकारमायान्ति क्षिप्रमेकतरं कुरु । सीतां वाऽस्मै प्रयच्छाशु सुयुद्धं वा प्रदीयताम् ॥ ३६ ॥ शुकस्य वचनं श्रुत्वा रावणो वाक्यमब्रवीत् । रोषसंरक्तनयनो निर्दहन्निव चक्षुषा ॥ ३७ ॥ यदि मां प्रति युद्धयेरन देवगन्धर्वदानवाः । नैव सीतां प्रयच्छामि सर्वलोकभयादपि ॥ ३८ ॥
रामपराक्रमं वर्णयति स चेति । तदव्याहतपराक्रमस्य भूयः सन्दर्शनादस्मानवश्यं हनिष्यत्येवेति भावः ॥ ३२ ॥ निर्धूय तृणीकृत्य । एष इत्यतिसन्नि "हितत्वमुच्यते ॥ ३३॥ सङ्घानामनीकानीत्यनेन सङ्गारब्धत्वोक्त्या महानीकत्वं सूचितम् ||३४|| इदानीं तव वचनावकाशाभावेऽपि पुनः प्रकारान्तरेण गच्छेत्याशङ्कयाह-राक्षसानामिति । सन्धिः योगमात्रम् ॥ ३५ ॥ सम्प्रति कर्तव्यमुपदिशति-पुरेति । पुरा आयान्ति आयास्यन्ति । " यावत्पुरानिपातयो र्लट् " इति भविष्यदर्थे लट् । एकतरमित्युक्तं विशदयति सीतामिति ॥ ३६ ॥ ३७ ॥ यदीति । सर्वलोकभयात् सर्वलोकेभ्यो भयात् ॥ ३८ ॥ अहं तथा ब्रुवन् लोतुं पक्षभागे छेत्तुं मुष्टिभिर्हन्तुं चारब्धः ॥ ३०॥ संश्वः सम्यक् प्रश्नः, मिथः संवादः ॥ ३१॥३२॥ निर्धूय वृणीकृत्य ॥ ३३॥ ३४ ॥ सन्धिः सन्धानं नास्त्येव ॥ ३५ ॥ पुरा आयान्ति आथास्यन्ति । “यावत्पुरानिपातयोर्लट्" इति भविष्यदर्थे लट् । एकतरं वक्ष्यमाणयोरन्यतरत् । तदेवाह सीतामिति ||३६|| ३५|| सर्वलोक स० [सर्वलोकः सर्वः हरो वा हरिर्वा हिरण्यगमों वा तस्माद्वयादपि नैव प्रदास्यामीत्यन्वयः । सर्वलोकमयात् पुत्रादिलोकनासमपादपीति वा ॥ ३८ ॥
For Private And Personal Use Only