________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
बा.रा.भू.
दीर्घमिति । अद्य युद्धयात्रासमये कान्तास्मरणव्यसनमनुचितमिति तनियमितवानिति सूचयति दीर्घमुष्णं च निश्वस्येत्यनेन । तत्कालहितं युद्ध टी.यु.का. यात्रासमये हितम् । शोकविस्मारकनगरशोभावर्णनरूपं वचनम् । यद्वा अङ्गन्दः सह नीलेनेत्यादि वाक्यं तत्कालहितम् । तत्साहचर्यादाढ्यं नगरस.२४ मितिवत् आलिखन्तीमित्यादिकं सर्व वाक्पजातं तत्कालहितमित्युक्तम् ॥ ८॥ आलिखन्ती स्पृशन्तीम् । उत्थिताम् उन्नताम् । नगाग्रे त्रिकूट
दीर्घमुष्णं च निश्वस्य समुद्रीक्ष्य च लक्ष्मणम् । उवाच वचनं वीरस्तत्कालहितमात्मनः ॥८॥ आलिखन्तीमिवा काशमुत्थितां पश्य लक्ष्मण । मनसेव कृता लङ्का नगाग्रे विश्वकर्मणा ॥ ९॥ विमानैर्बहुभिर्लङ्का सङ्कीर्णा भुवि राजते । विष्णोः पदमिवाकाशं छादितं पाण्डरैर्धनैः॥ १०॥ पुष्पितैः शोभिता लङ्का वनैश्चैत्ररथोपमैः । नाना पतङ्गसंघुष्टैः फलपुष्पोपगैः शुभैः ॥ ११॥ पश्य मत्तविहङ्गानि प्रलीनभ्रमराणि च । कोकिलाकुलषण्डानि
दोधवीति शिवोऽनिलः ॥ १२॥ शिखरे ॥ ९॥रामानु० -मनमेव कृतां लङ्का नगाग्रे विश्वकर्मणेति पाठः ॥ ९॥ विष्णोः आदित्यस्य पदं स्थानम्, आकाशमध्यमिति भावः। विमानम् अनेक तलपासादः॥१०॥ रामानु:-विष्णोः पदं विष्णुपादभूतम् ॥ १० ॥ फलभूतानि पुष्पाणि यासां ताः फलपुष्पाः मल्लिकादयः ताभिरुपगम्यन्त इति तथा । अतो न पुष्पितैरित्यनेन पौनरुक्त्यम् । संघुष्टं सङ्घोषः । भावे क्तः । नानाविधानि पतङ्गसंघुष्टानि येषां तैः ॥ ११ ॥ मत्तविहङ्गानि । विहङ्गशब्दोऽत्र कोकिलपरः । अनेन सदा फलवत्त्वमुक्तम् । प्रलीनभ्रमराणि मधुपानपरवशतया निष्पन्दभ्रमराणि । अनेन सदा पुष्पवत्त्वमुक्तम् । कोकिलाकुलं पण्डं पुष्पसमूहो येषां तानि कोकिलाकुलषण्डानि । अनेन सदा पल्लवितत्वमुक्तम् । कोकिलानां पल्लवप्रियत्वात् । वनानीत्यनुपञ्जनीयम् । दोपवीति पुनः पुनः कम्पयति । “धूम् कम्पने" इत्यस्माद्यङलुक् ॥१२॥ इतिकरणं द्रष्टव्यम् । लोहिताङ्गेन अङ्गारकेण ॥७॥ यद्यप्यालिखन्तीमिवेत्यादिलङ्कावर्णनावाक्यस्य तत्कालहितत्वं नास्ति, तथाप्यतद्वाक्यानन्तरमनदस्सह ॥८॥ नीलेनेत्यादिना तत्कालहितेन सेनारक्षणनियोगवाक्येन साहचर्यादालिखन्तीमिवेत्यादि सर्व वाक्यं तत्कालहितमिति मन्तव्यम् ॥ ८॥९॥ विमानः सप्तभूमिक प्रासादेः सङ्कीर्णा मिविढा । अत्रोपमा । पाण्डरैर्धनेस्सङ्कीर्ण विष्णोर्ध्यापनशीलस्य वायुमयस्य ब्रह्मणः पदं प्रचारस्थानमाकाशमिव ॥ १०॥ ११॥ दोधवीति
For Private And Personal Use Only