________________
Acharya Shri Kalassagarsun Gyanmandit
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
बा.रा.भू. ॥८ ॥
पात इति । शिवः शोणितकदमा मलहोणावता भूमिमीसशोणित
टी.पु.का,
पास०२२
बलानां दुर्बलैः परिभवोऽप्युत्पात इति । शिवाः गोमायवः । “स्त्रियां शिवा भूरिमायुर्गोमायुः" इत्यमरः । नादान् नदन्ति नादान्कुर्वन्तीत्यर्थः ॥ १२ ॥ उक्तोत्पातफलमाह-शैलेरिति । मांसशोणितकर्दमा मांसशोणितरूपकर्दमवती ॥ १३ ॥ क्षिप्रं सत्वरम् । जवेन वेगेन ॥ १४॥
शैलैः गलेश्च खड्डैश्च विसृष्टैः कपिराक्षसैः । भविष्यत्यावृता भूमिर्मीसशोणितकर्दमा ॥ १३ ॥ क्षिप्रमद्यैव दुर्धर्षी पुरीं रावणपालिताम् । अभियाम जवेनैव सर्वतो हरिभिर्वृताः ॥ १४ ॥ इत्येवमुक्त्वा धर्मात्मा धन्वी सङ्घामहर्षणः। प्रतस्थे पुरतो रामो लङ्कामभिमुखो विभुः ॥१५॥ सविभीषणसुग्रीवास्ततस्ते वानरर्षभाः। प्रतस्थिरे विनर्दन्तो निश्चिता द्विषतां वधे ॥१६॥ राघवस्य प्रियार्थ तु धृतानां वीर्यशालिनाम् । हरीणां कर्मचेष्टाभिस्तुतोष
रघुनन्दनः ॥ १७॥ इत्याचे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमधुद्धकाण्डे त्रयोविंशः सर्गः ॥२३॥ इत्येवमिति । पुरतः प्रतस्थ इति उत्साहातिशयोक्तिः । विभुः समर्थः ॥ १५॥ निश्चिताः निश्चयवन्तः । अत्र प्रस्थानं शीतोदकफलबदनपरिग्रहार्थे । परिगृह्योदकमित्यादिना प्रथमं तस्य कर्तव्यतया अभिहितत्वात् ॥ १६॥ धृतानां धैर्यवताम् । कर्मचेष्टाभिः युद्धकर्मादिविषयचेष्टाभिः लागलो त्थापनादिभिः। तुतोपेत्यनेन इदं दुर्गप्रदेशं दृष्ट्वा वानरा निरुत्साहा भवेयुरिति पूर्व राममनसि स्थितमित्यवगम्यते ॥ १७॥ इति श्रीगोविन्दराजविरचिते। |श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रयोविंशः सर्गः ॥ २३ ॥ राघवस्यति । धृतानामवहितानाम् ॥ १७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां युद्धकाण्डव्याख्यायो त्रयोविंशः सर्गः ॥२३॥
ITH
सा-अरामः पुत्रत्वेन तस्सदृशः तडिनो लक्ष्मणः । पुरतो रामः । अपुरतः तत्पश्चाशश्मणः । सरैः मुक्ताहारादिमिर्न विद्यते मा शोमा इदानी यस्येति वा सरामः इदानी रितभार्यात्वेनारामः सर्वाभिरामोपि रिपूणाममनोहर इति वा अरामः । धर्मात्मेति कचित्पाठो व्याख्यातृसाहसासहः । इत्येवमुक्त्वा धन्दी स रामः संपामधर्षणः । इति पाठः ॥ १५ ॥ राघवस्य स्वस्य प्रियार्थ भार्यार्थम् । यत्कर्म अन्वेषणरूपं तदन
रूपाभिवेष्टाभिः । रघुनन्दनो रामस्तुतोष राघवशब्देन मुखतो गृहीतस्य पुना खुनन्दनपदेन महणम् “ अनुमडार्थ स करवाप सलक्ष्मणोऽस्त्र मुनितो हि केवलम् । " इत्यादिवत्सम्भवति । राघवस्य लक्ष्मणस्य ।। 17प्रिया प्रियावहप्रयोजनमुदिश्य याकर्म तदनुरूपचेष्टामिः सुनन्दनो रामः । राघवस्य रामस्य । सुगन्दनो लक्ष्मण इति वा ॥ १७ ॥
For Private And Personal Use Only