________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
।
मिहिरः- "दिव्युल्कापतनं चैव दिवा नक्षत्रदर्शनम् । दिवाऽशनिस्तथा काष्ठतृणरक्तप्रवर्षणम् ॥” इति ॥ ५ ॥ रक्तचन्दनं कुङ्कुमम्, रक्तचन्दनतुल्यमेष भवतीत्यर्थः । परमदारुणा, भवतीति शेषः । अग्रिमण्डलम् अग्निपिण्डः ॥ ६ ॥ दीनाः दीनाकृतयः । जनयन्तः सूचयन्तः ॥ ७ ॥ रजन्यामिति । अर्धमेकं वाक्यम् । अप्रकाशः निष्प्रभः । सन्तापयति, शीतस्य सन्तापकरणं ह्युत्पात इति भावः ॥ ८ ॥ कृष्णा रक्ताश्चांशवः पर्यन्ते यस्य सः तथोक्तः । सर्वान्ते रक्तचन्दनसङ्काशा सन्ध्या परमदारुणा । ज्वलतः प्रपतत्येतदादित्यादग्निमण्डलम् ॥ ६ ॥ दीना दीनस्वराः क्रूराः सर्वतो मृगपक्षिणः । प्रत्यादित्यं विनर्दन्ति जनयन्तो महद्भयम् ॥ ७ ॥ रजन्यामप्रकाशस्तु सन्तापयति चन्द्रमाः ॥ ८ ॥ कृष्णरक्तांशुपर्यन्तो लोकक्षय इवोदितः । ह्रस्वो रूक्षोऽप्रशस्तश्च परिवेषः सुलोहितः ॥ ९ ॥ आदित्ये विमले नीलं लक्ष्म लक्ष्मण दृश्यते ॥ १० ॥ रजसा महता चापि नक्षत्राणि हतानि च । युगान्तमिव लोकानां पश्य शंसन्ति लक्ष्मण ॥ ११ ॥ काकाः श्येनास्तथा गृध्रा नीचैः परिपतन्ति च । शिवाश्चाप्यशिवान्नादान्नदन्ति सुमहाभयान् ॥ १२ ॥
कृष्णमण्डलः तदनन्तरं रक्तमण्डल इत्यर्थः । सुलोहितः मध्ये अत्यन्तरक्तवर्णः । लोकक्षये प्रलये उदितः परिवेष इव स्थितः । रूक्षः क्रूरः । अप्रशस्तः अप्रसिद्धः, इतः पूर्वमदृष्ट इत्यर्थः । परिवेषः, दृश्यत इति शेषः । अत्र वर्णत्रयकथनेन मण्डलत्रयकथनात्सायङ्कालिकत्वाच्च परिवेषस्य नृपक्षयकरत्वं सूच्यते । तथाह काश्यपः- “ द्विमण्डलश्चमूपनो नृपनो यस्त्रिमण्डलः" इति । "दिनकर परिवेषः पूर्वयामे तु पीडा दिनकरपरिवेषो वृष्टियुद्धं द्वितीये ।। दिनकरपरिवेषं क्षेममा दुस्तृतीये दिनकरपरिवेषः सर्वनाशश्वतुर्थे ॥” इति ॥ ९ ॥ नीलं लक्ष्म छिद्ररूपम् । तदाह वराहः - "अपर्वणि तथा राहुग्रहणं चन्द्रसूर्ययोः । चन्द्रार्कमण्डलच्छिद्रं दृष्ट्वा जनपदक्षयः ॥” इति । यद्वा नीलं लक्ष्म चन्द्र इव कलङ्को दृश्यते । एतदेवौत्पातिकं नैल्यमधिकृत्य ' यदा दित्यस्य रोहितं रूपम् ' इत्यारभ्य 'यत् कृष्णं तदन्नस्य' इत्युच्यते ॥ १० ॥ रजसा मालिन्येन । युगान्तं प्रलयम् ॥ ११ ॥ नीचैः दुर्बलैः । अधिक तथा ॥ ५ ॥ ६ ॥ प्रत्यादित्यं सूर्यसम्मुखम् ॥ ७ ॥ रजन्यामित्यर्थं भिन्नं वाक्यम् ॥ ८ ॥ कृष्णरक्तांशुपर्यन्तः कृष्णाश्व रक्ताश्च अंशवो येषां ते कृष्णरक्तशिवः तादृशाः पर्यन्ताः यस्य स तथोक्तः । लोकक्षय इव लोकनाशसमय इव परिवेष उदित इनि सम्बन्धः ॥ ९ ॥ १० ॥ रजसा मालिन्येन ॥ ११-१६ ॥
For Private And Personal Use Only