________________
Acharya Shri Kalassagarsur Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
वा.रा.म.
टी.यु,को.
एवं रामो नलसेतुना तीर्णमहार्णवो महासमरसूचकान महोत्पातान् दृष्ट्वा चिरप्रार्थिताभीष्टसिदिभविष्यतीति सन्तुष्टो दृष्टानि निमित्तानि निमित्तज्ञाय लक्ष्मणाय दर्शयति-निमित्तानीति । निमित्तज्ञत्वे लक्ष्मणादप्याधिक्यं दर्शयितुं लक्ष्मणपूर्वज इत्युक्तम् । सम्परिष्वङ्गश्चिरप्रार्थितसमरस्यासन्नत्वात् ।। निमित्तापेक्षणस्यावश्यकत्वमुक्तं कामन्दके-“निमित्तान्येव शंसन्ति शुभाशुभफलोदयम् । तस्मादेतानि शास्त्रज्ञो राजा समुपलक्षयेत् ॥” इति ॥१॥ निमित्तानि निमित्तज्ञो दृष्ट्वा लक्ष्मणपूर्वजः । सौमित्रिं सम्परिष्वज्य इदं वचनमब्रवीत् ॥ १॥ परिगृह्योदकं शीतं वनानि फलवन्ति च । बलौघं संविभज्यमव्यूह्य तिष्ठेम लक्ष्मण ॥२॥ लोकक्षयकर भीमं भयं पश्याम्युपस्थितम् । । निबर्हणं प्रवीराणामृक्षवानररक्षसाम् ॥३॥ वाताश्च कलुषा वान्ति कम्पते च वसुन्धरा । पर्वताग्राणि वेपन्ते पतन्ति ।
च महीरुहाः॥४॥ मेघाः क्रव्यादसङ्काशाः परुषाः परुषस्वनाः । क्रूराः क्रूरं प्रवर्षन्ति मिश्रं शोणितबिन्दुभिः॥५॥ शीतमुदकं शीतोदकवत्प्रदेशम् । वनानि जलसमीपस्थानि । परिगृह्य वासार्थ स्वीकृत्य । व्यूह्य गरुडरूपेण सन्निवेश्य । तथा व्यक्तीभविष्यति ॥२॥ लोकक्षयकरं क्षुद्रजनक्षयकरम् । विशिष्य प्रवीराणां निबर्हणं विनाशकम् । भयमिति युद्धमुच्यते ॥ ३ ॥ भयदर्शने लिङ्गान्याह-वाता इत्यादि। महीरुहाः पतन्ति अकस्मादिति भावः । अत्रात्यन्तानिष्टको भूकम्पः सन्ध्याकालिक इति ज्ञेयम् । तथोक्तं वसिष्ठेन-“यामत्रयाञ्चभूकम्पो द्विजातीना मरिष्टदः । अरिष्टदः क्षितीशानां सन्ध्ययोरुभयोरपि ॥” इति ॥ ४॥ मेघा इति। कव्यादसङ्काशाः वृकवर्णाः, श्येनादिसंस्थाना इति वा । परुषाः दुर्दशाः, रूक्षा इति यावत् । परुषस्वनाः श्रुतिकटुस्वनाः। अत एव क्रूराः भयङ्कराः । मिश्रम्, उदकमिति शेषः । कूरमिति क्रियाविशेषणम् । अत्र
परियोति । शीतोदक फलबन्ति वनानि च परिगृह्य आश्रित्य च बलोघं संविभज्य व्यूह्य तिष्ठेमेति सम्बन्धः । सशीतोदकसफलवनमदेशे बलोघ । गरुडादिव्यूहं कृत्वा तिष्ठेमेत्यर्थः॥ २॥ भीमं महत ॥ ३ ॥ कलुषाः रजोव्याप्ताः ॥ ४॥ क्रम्यादसङ्काशाः राश्येनादिसहशाः । शोणितबिन्दुभिर्मि यथा | स-भयं तत्साधनम् । निवर्हण नाशश्च । योग्यतया भयम् कक्षवानराणाम् । राक्षसागा निवर्हणमित्यन्वेतव्यम् । अन्यथा सर्वक्षस्य रामस्य निमित्तोपन्यासो निर्मरणवानरपक्षविषये मोधः स्यात् । अथवा - तारापिता तानिरुजश्वकार " इति तद्गन्धमादनानिलोजीविताः नवराच जीविताश्चेत्येतत्पूर्वतनी मुर्ति विवक्षित्वा प्रबर्हणवचनमर्हति ऋक्षवानरपक्षेऽपि ॥ ॥ परुषस्वराः प्रवरस्वराः । अत एव परुषाः श्रोत्रोवणाः । कराः मननवेजकाः ॥६॥
॥८१.
For Private And Personal Use Only