________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| इत्यर्थः ॥८६॥ केचिदित्यर्द्धमेकं वाक्यम् । वैहायसं विहायरसम्बन्धि गतं गमनं येषां ते तथोक्ताः । सुपर्णाः गरुडाः॥८७॥ अन्तर्दधे तिरश्चकार ||८८|| वानराणां राज्ञो वाहिनीत्यन्वयः । राज्ञेति पाठे राज्ञा सुग्रीवेण सहेत्यर्थः । तीरे दक्षिणतीरे ॥ ८९ ॥ इत्थमकुण्ठदशकण्ठकण्ठाटवीटननिदर्शनभूतं सेतुनिर्माणनैपुण्यमालोक्य समुपजातमानन्दसन्दोहमा रावणनिबर्हणादनु हाटनीयमप्यन्तर्नियन्तुमशक्नुवन्तस्तादृशहर्षप्रकर्षबलात्कारेण देवा यथोचितं केचिद्वैहायसगताः सुपर्णा इव पुप्लुवुः ॥ ८७ ॥ घोषेण महता तस्य सिन्धोर्घोषं समुच्छ्रितम् । भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी ॥ ८८ ॥ वानराणां हि सा तीर्णा वाहिनी नलसेतुना । तीरे निविविशे राज्ञो बहुमूलफलो दके ॥ ८९ ॥ तदद्भुतं राघवकर्म दुष्करं समीक्ष्य देवाः सह सिद्धचारणैः । उपेत्य रामं सहसा महर्षिभिः समभ्य षिञ्चन् सुशुभैर्जलैः पृथक् ॥ ९० ॥ जय स्वशत्रून् नरदेव मेदिनीं ससागरां पालय शाश्वतीः समाः । इतीव रामं नरदेवसत्कृतं शुभैर्वचोभिर्विविधैरपूजयन् ॥९१॥ इत्यार्षे श्रीरामायणे ० श्रीमद्युद्धकाण्डे द्वाविंशः सर्गः ॥ २२ ॥ राममपूजयन्नित्याह-तदित्यादिना श्लोकद्वयेन । दुष्करं रामादन्यैर्मनसापि कर्तुमशक्यम् । पृथक् प्रत्येकं समभ्यषिञ्चन् ॥ ९० ॥ जयेति च्छेदः । स्वशत्रून आश्रितशत्रूणामेवास्य शत्रुत्वादिति भावः । नरदेवसत्कृतं नरैश्व देवैश्व सत्कृतम् । अपूजयन् अस्तुवन् । स्तुतिर्हि वाचिका पूजा | ॥ ९१ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्वाविंशः सर्गः ॥ २२ ॥
१९१
Acharya Shri Kailassagarsuri Gyanmandir
वैहायसगताः बिहायस्सम्बन्धि गतं गमनं येषां ते तथोक्ताः ॥ ८७ ॥ हरिवाहिनी सागरस्य घोषम् अन्तर्दधे अन्तरधापयदिति सम्बन्धः ॥ ८८ ॥ वाहिनी | राज्ञा सुग्रीवेण निविविशे निविष्टा ॥ ८९ ॥ अथ समुद्र सेतुबन्धनहृष्टैर्देवैस्तदानीमेव रामस्य राज्याभिषेकः रामेण विभीषणस्येवेत्याह- तदद्भुतमिति । राघव | कर्म राघवाज्ञाजन्यत्वात् । सुशुभैर्जलैः आकाशगङ्गादिजलेः ॥ ९० ॥ नरदेवसत्कृतं नरैर्देवैश्च सत्कृतम् ॥ ९१ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्व दीपिकाख्यायां युद्धकाण्डव्याख्यायां द्वाविंशः सर्गः ॥ २२ ॥ ( कतकरीत्याऽयमेकविंशः सर्गः ॥ )
For Private And Personal Use Only