________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
डा.रा.भ. 1001
सबन्धी सेतुर्नलसेतुः तम् ॥ ७७॥ निर्विघ्रसेतुबन्धेन जातं वानरहर्ष दर्शयति-आधुवन्त इति । अर्द्धमेकं वाक्यम् । आपुवन्तः आभिमुख्येन पूवन्तःटी .यु.का. [दूरं पूवन्तः, आसन्निति शेषः ॥ ७८॥ रामानु-आलवन्त इति । पूवङ्गमाश्च ददृशुरिति संबन्धः । यदा अभूवनिति शेषः ॥ ८ ॥ अचिन्त्यम् इतः पूर्व मनसापि चिन्त स . यितुमनहम् । असह्यं कस्यापि यत्नाविषयम् । अद्भुतम् आश्चर्यकरम् । रोमहर्षणं पुलकावहम् ॥ ७९ ॥ तानीति । सेतुं बनन्तः सेतुबन्धनसह।
आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः ॥७८॥ तदचिन्त्यमसह्यं च अद्भुतं रोमहर्षणम् । ददृशुः सर्वभूतानि सागरे सेतुबन्धनम् ॥ ७९ ॥ तानि कोटिसहस्राणि वानराणां नहौजसाम् । बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः ॥ ८०॥ विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः। अशोभत महासेतुःसीमन्त इव सागरे ॥८॥ ततः पारे समुद्रस्य गदापाणिर्विभीषणः । परेषामभिघातार्थमतिष्ठत् सचिवैः सह ॥ ८२ ॥ सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्। हनुमन्तं त्वमारोह अङ्गदं वापि लक्ष्मणः ॥ ८३ ॥ अयं हि विपुलो वीर सागरो मकरा लयः । वैहायसौ युवामेतौ वानरौ तारयिष्यतः ॥८४॥ अग्रतस्तस्य सैन्यस्य श्रीमान रामः सलक्ष्मणः । जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः ॥ ८५ ॥ अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवङ्गमाः । सलिले
प्रपतन्त्यन्ये मार्गमन्ये न लेभिरे ॥ ८६॥ कारिणः ॥ ८० ॥ सुकृतः दृढतया कृतः सुकृतकरो वा । श्रीमान् ऋजुत्वेन कान्तिमान् । सुभूमिः निनोन्नतत्वरहितः। सुसमाहितः निर्विवरः ॥ ८॥ पारे दक्षिणतीरे ।। ८२ ॥ लक्ष्मण इत्यत्र आरोहात्विति पुरुषविपरिणामः कर्तव्यः ।। ८३॥ आरोहणहेतुमाह-अयमिति । विपुलः शतयोजनं पद्भया । गमने बहुकालविलम्बो भविष्यतीति भावः । वैहायसौ अपादचारिणौ । इति सुग्रीवः प्राहेति पूर्वेणान्वयः ।। ८४ ॥ अग्रत इति । स्पष्टः॥ ८५॥ रामानु-अग्रत इति । सुग्रीवेण समन्वितो जगामेत्यनेन सुग्रीवस्यापि विहायसा गमनं योत्यते ॥ ८५ ॥ अन्य इति । न लेभिरे मार्गालाभात्तीर एवं कंचित् कालं स्थिताः
आजवन्तः प्लवन्त इत्यत्र, अभूवन्निति शेषः । गर्जन्तः प्रवङ्गमाश्च ददृशुः ।। ७८ ॥ अचिन्त्यम् अचिन्त्यरचनम् । असह्यं भगवत्सम्बन्धं विना केनापि कर्तुम शाशक्यम् ॥ ७९ ॥ बनन्त इत्यत्र लिङ्गम्यत्यय आर्चः ॥ ८० ॥ ८१ ॥ परेषां राक्षसानाम् ॥ ८२ ॥३॥ हायसी विहायसा गच्छन्ती ॥ ८४-८६ ॥
For Private And Personal Use Only