________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyanmandir
इमे हीति । अर्धमेकं वाक्यम् ॥ १४॥ उपसंहरति-तदिति । तत् उक्तरीत्या शोकनिमित्तासम्भवात् । विक्लवा शोकपरवशा । अत एव सर्वार्थ नाशिनी बुद्धिः । अलं मा भूत् । “अलं भूषणपर्याप्तिशक्तिवारणवाचकम्" इत्यमरः । तत्र हेतुमाइ-पुरुषस्येति । शौर्यापकर्षणः शोर्यनाशनः ॥१५॥ रामानु०-शोकस्यानर्थकारित्वप्रदर्शनेन प्रसक्तं शोर्क निवारयति-तदलमित्यादिना ॥ १५ ॥ न केवलं शोकत्यागः सत्त्वावलम्बनं च कार्यमित्याह-यत्त्विति । शौण्डीयै|
तदलं विक्लवा बुद्धी राजन सर्वार्थनाशिनी। पुरुषस्य हि लोकेऽस्मिन् शोकः शौर्यापकर्षणः ॥ १५॥ यत्तु कार्य मनुष्येण शौण्डीर्यमवलम्बता । अस्मिन् काले महाप्राज्ञ सत्त्वमातिष्ठ तेजसा ॥ १६ ॥ शूराणां हि मनुष्याणां त्वद्रिधानां महात्मनाम् । विनष्टे वा प्रनष्टे वा शोकः सर्वार्थनाशनः ॥ १७ ॥ त्वं तु बुद्धिमतां श्रेष्ठः सर्वशास्त्रार्थ कोविदः। मद्विधैः सचिवैः सार्धमरिं जेतुमिहार्हसि ॥१८॥ न हि पश्याम्यहं कंचित्रिषु लोकेषु राघव । गृहीतधनुषो यस्ते तिष्ठेदभिमुखो रणे ॥१९॥ वानरेषु समासक्तं न ते कार्य विपत्स्यते। अचिराक्ष्यसे सीतां तीर्वा सागरमक्ष
यम् ॥२०॥ तदलं शोकमालम्ब्य क्रोधमालम्ब भूपते। निश्चेष्टाः क्षत्रिया मन्दाः सर्वे चण्डस्य बिभ्यति ॥२१॥ Mशौर्यम् । “शौण्डी गर्वे " इति धातोरोणादिके ईरन्प्रत्यये शोण्डीरश्शूरः अस्य भावश्झौण्डीर्य तत् अवलम्बता अवलम्बमानेन । शौर्यप्रधानेने त्यर्थः । मनुष्येण पुरुषेण । यत्कार्य सम्पाद्यं तत्सत्त्वं धैर्यम् बलं वा । तेजसा पराक्रमेण सह अस्मिन्काले आतिष्ठ अवलम्बस्व ॥ १६॥ ननु नायं शोकस्सागरतरणादिनिमित्तकः किंतु सीतानवलोकनादिनिमित्त इत्यत्राह--शूराणामिति । विनष्टे अन्तर्हिते। "णश अदर्शन" इति धातोर्निष्ठा ॥१७॥ पुनश्च रामं प्रोत्साहयति-त्वमिति । इह इदानीम् ॥१८॥ न हि तिष्ठेत् स्थातुं न शक्नुयात् ॥ १९॥ वानरेषु समासक्तं वानरमूलमित्यर्थः। न विप त्स्यते न विनश्यति ॥२०॥ उपसंहरति-तदिति । आलम्ब्यालम् नालम्बस्वेत्यर्थः । “अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा" इति क्त्वाप्रत्ययः। समुत्पाटय सराक्षसाम् इति॥१४॥ उक्तमर्थमुपसंहरति--तदलमिति । विक्रवा बुद्धिरलं माऽस्तु । रामस्य हृदयस्थशोकं निराकर्तुमुक्तमेवा पुनरप्याह पुरुषस्पेति॥१५॥ शौण्डीर्य शीर्षम् अवलम्वता मनुष्येण पुरुषेण यत्सत्वं यद्धय नदातिष्ठेत्यन्वयः ॥ १६ ॥ विनष्टे तिरोहिते । प्रनष्टे प्रध्वस्तेषा, वस्तुनि विषये ॥ १७ ॥१८॥ त्वच्छौर्यपर्यालोचनयाsपि शोको न कार्य इत्याह-न हीति । तिष्ठेत स्थातुं शक्नुयात् ॥ १९ ॥ न विपत्स्यते न बिनमचति ॥२०॥ शोकमालम्म्यालं नालम्बस्व ।
For Private And Personal Use Only